________________
श्रीप्रवaaपरीक्षा ४ विश्रामे
॥३६९||
| जिनपूजाव्यवस्थापका आस्माकीना वादिश्रीदेवसूरि श्रीहेमाचार्यप्रभृतयो भूयांसो येषां भयेनोष्ट्रमारुह्य पलायनं जिनदत्तस्य | स्त्री जिनपूजानिषेधहेतुकं संपन्नम्, एतेन केचिदज्ञाः पर्युषणाचतुर्थीवत् स्त्री जिनपूजा निषेधोऽप्याचार्यप्रवर्तितः प्रमाणमिति वदन्ति | तेऽपि तिरस्कृताः, यत्किंचिदाचार्यप्रवर्त्तितस्य प्रामाण्याभ्युपगमे प्रवचनमात्रस्याप्युच्छेदापत्तेरित्यलं विस्तरेणेति गाथार्थः ॥ १७२ ॥ अथ स्त्रीजिनपूजानिषेधे निगमनमाह
पण तित्थसम्मय पर्यट्टि तहविहेण पुरिसेण । तं सर्व्वं अिणआणा नऽण्णपि अनंतस्तु ।। १७३ ।। एतेन प्रागुक्तयुक्तिप्रकारेण तथाविधागमव्यवहारियुगप्रधानादिपुरुषेणाच्छिन्नपरम्परागततीर्थमम्मतं प्रवर्तितं तदेव जिनाज़ा, न पुनरन्यदपि जिनदत्तसदृशेन तत्समुदायसम्मतमप्युक्तं प्रमाणं भवति, किंवद् ? - अनन्तरोक्तवत् - स्त्री जिनपूजानिषेधो न तीर्थप्रमागं तद्वत्, तथाऽन्यदप्युक्तं वक्ष्यमाणं च खरतरमताकर्षकप्रवर्त्तितं न प्रमाणमिति गाथार्थः || १७३ ।। अथेह प्रकरणे स्त्रीजिनपूजा| विषये सिद्धान्ताक्षराणि कथं न दर्शितानीति स्वकीयानामपि केषांचिच्छङ्का स्यात्तदपाकृतये प्राह
इह सुत्तसम्मईए पओअणं नत्थि जेण तयणं । मूढमुहमुहरूवं सामायारित्ति अम्हाणं ॥ १७४ | इह प्रकरणे मुकसिद्धान्ते स्त्रीणां जिनपूजा भणितेत्येवंरूपेण सूत्रसम्मत्या प्रयोजनं-फलं नास्ति, तत्र हेतुमाह-येन कारणेन स्त्रीजिनपूजानिषेधरूपाऽस्माकं सामाचारीति मूढमुखमुद्रारूपं तद्वचनं तेषां साम्प्रतीनानां खरतराणां वचनं विद्यते, अयं भावः ननु भोः खरतर ! स्त्रीपूजानिषेधः किं सूत्रोक्तोऽच्छिन्नपरम्परागतो वेत्येवंरूपेणोदीरितोऽप्याष्ट्रिको भणति न हि वयं स्त्रीजिनपूजा सिद्धान्ते निषिद्धेति ब्रमः, किंत्वस्माकं गच्छ मामाचारीति, एतद्वचनं मूर्खाणां मुखमुद्रा स्याद्, एतद्वचनश्रवणमात्रेण जिनवचनानवगत
Jain Education International
For Personal and Private Use Only
ऊनसूत्रे स्त्रीजिनपूजानिषेधः
।।३६९।।
www.jainelibrary.org