________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥ ३६६ ॥
Jain Educationa
जिणदत्तो जिणपूजारहिआ रमणीउ जंति निवाणं । सिद्धणरिहाबि रमणी पूएउ जिणं भणइ खमणो || १६४ ॥ जिनदतः खरतरमताकर्षकः जिनपूजारहिताः स्त्रियो निर्वाणं यान्तीति भणति, क्षपणकस्तु सिद्ध्यनहः - मुक्तेरयोग्या अपि स्त्रियो जिनपूजां कुर्वन्त्विति भणतीतिगाथार्थः ॥ १६४ ॥ अथानयोः को दक्ष इत्याह
एवं दुहवि दक्खो खमणो निअमेण जेण जिणपूआ । मुत्तिउवाओ भणिओ कलं पुण कारणायत्तं ।। १६५ ।। एवम् अमुना प्रकारेणोपदेशप्रवृत्तयोः जिनदत्तक्षपणयोः क्षपणको दक्षो-निपुणो, येन कारणेन जिनपूजा तावन्मुक्त्युपाय :मोक्षहेतुः, स च भणितः - प्रकाशितः, कार्य पुनः कारणायत्तमिति कारणे सिद्धे कार्यमनिच्छाविषयोऽपि सिद्ध्यति, यथा तीर्थकृतां | सिद्धिमनिच्छतामपि तदनुकूलानुष्ठान विधायित्वात् स्वत एव सिद्धिसिद्धिः, 'सामग्री हि कार्यमवश्यं जनयतीति न्यायात्, क्षपणको जिनदत्तापेक्षया दक्षो न पुनर्धर्मिणां प्रशंसनाई इतिगाथार्थः॥ १६५ ॥ अथ जिनदत्तस्य क्षपणकापेक्षया निकृष्टत्वे हेतुमाह
कारणनिमेहणेणं कपि निसेहिअं हवइ नियमा । तेणं खमणा दुगुणं पावं जिणदत्तवयणेणं ॥ १६६ ।। कारणनिषेधनेन - मुक्तिकारणजिनपूजाप्रतिषेधेन कार्यमपि - जिनपूजाजन्यमुक्तिलक्षणं फलमपि नियमान्निषिद्धं भवति तेन कार| णेन क्षपणकाञ्जिनदत्तवचनाङ्गीकारेण द्विगुणं स्त्रीणां कार्यकारणरूपोभयपदार्थनिषेधनेन पापं विज्ञेयमिति सिद्धं क्षपणकात् खरतरो | निकृष्ट इति गाथार्थः । । १६६ ।। अथौदारिकशरीरत्वेनापावित्र्य साम्येऽपि स्त्रीणां जिनपूजा निषिद्धा, न पुनः पुरुषाणामित्यत्र हेतुमाहपुषं विराहिओ मोडणंतोदिअपावरासिनारीहिं । पावावणयणकाले गलग्गहो जेण निम्मविओ || १६७ || पूर्व - पूर्वजन्मन्यनन्तोदितपापराशिभिः जिनदत्तोपात्ताभिर्जिनदत्तो विराधितः क्वचिन्महत्यामापदि पातितोऽभूत् तेन कारणेन
For Personal and Private Use Only
अनसूत्रे स्त्रीजिनपूजानिषेधः
॥३६६ ।।
www.jninelibrary.org