________________
श्रीप्रववनपरीक्षा
४ विश्रामे
॥३६४||
प्रवेशनिषेधप्रसक्तिः शुनी तत्र गृहे नृत्यन्ती भातीति बोध्यमितिगाथार्थः || १५८ || अधातिप्रसङ्गं व्यक्त्या गाधयाऽऽहजं जं धम्मट्ठाणं नरनारिविराहिअं इहं नियमा । जिणदत्तघराया। सवं उच्छिन्नपुवं तं ॥ १५९ ॥ यद्यद्धर्मस्थानं-जिनपूजादेशविरतिसर्वविरतिलक्षणमिह नियमाद्विराधितं स्यात्तत्सर्व जिनदत्तघरा चारात्-तद्गृहरीतेरुच्छिनपूर्वं स्यात, तजातिमात्रस्यापि पुनस्तत्करणादुपदेशात्प्रतिषेधाच्च कुतस्तीर्थप्रवृत्तिरिति गाथार्थः ॥ १५९ ॥ अथोत्सूत्रपापापरिज्ञाने हेतुमाहनिअबुद्धिविगप्पेणं असुपि सुहंति मण्णमाणो अ । उस्सुत्तणाणरहिओ कहं बराओ मुणइ पार्व? ।। १६० ।। निजबुद्धिविकल्पेन - जिनानुक्तमपीदं सुन्दरं दृश्यत इत्येवमात्मीयकुविकल्पनया अशुभमपि - जिनाज्ञाबहिर्भूतत्वेनानन्तसंसारक्लेशहेतुभूतमपि शोभनं तथाविधकर्मपरिणतिबलेन जमालेवि स्वविकल्पनं मोक्षाङ्गमितिमन्यमानः उत्सूत्रज्ञानरहितः - उत्सूत्रानुत्सूत्र| विवेकपरिज्ञानशून्यो वराकः- तपस्वी कथं पापम् - उत्सूत्र हेतुकक्लिष्टकर्मबन्धलक्षणं कथमवगच्छति ?, नावगच्छतीत्यर्थ इति गाथार्थः ।।१६०॥ अथोत्सूत्रपापविपाकमाह-
उस्सुतभासगाणं बोहीनामो अनंतसंमारो। तहंसणंप पावं परूविअं पुण्णपणेहिं ॥ १६२॥
उत्सूत्र भाषकाणां - जिनाज्ञोत्तीर्ण प्ररूपकाणां बोधिः- जिनधर्मप्राप्तिस्तस्या नाशः - अनन्तकाललभ्यत्वादिकरणमतोऽनन्तसंसारः, यदागमः- “कालमणंतं च सुए अद्धापरिअडओ अ देणो । आसायणबहुलाणं उक्कोसं अंतरं होई || १ ||" इति श्रीआव० नि० (८५३) अत्राशातनाबहुल उत्सूत्रभाष्येव बोध्यः, तस्यैव प्रतिसमयं भावतस्तीर्थोच्छेद पातकलिप्तत्वाद्, एतच तीर्थव्यवस्थापनावसरे दर्शितमिति, यद्यनन्तस्यापि पर्यवसानं भवति तथाप्यनन्ताभिरुत्सर्पण्यवमर्पिणीभिर्जायमानत्वेनापर्यवसानतोच्यते, अत एव पुण्य
Jain Educationa International
For Personal and Private Use Only
ऊनसूत्रे स्त्रीजिनपूजानिषेधः
॥३६४॥
www.jainelibrary.org