SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ श्रीप्रववनपरीक्षा ४ विश्रामे ।।३५६॥ Jain Educations का द्विदलं प्रवचनसारोद्धारे "संगरिगाइम्मि अप्पडिए "त्ति संदेहदो लावली वृत्तिगतपाठमाह, “अथ संगरिपृच्छायामुत्तरमाह "जह किर चवलयचणया विदलं तह संगराड़ विदलंति । दिणचरिआनवपयपगरणेस लिहिआ उ फलिवग्गे ||१|| किलेत्याप्तवादे, तत आप्त एवं ब्रुवते, महारूक्षद्विदलवच्चाच्चपलकचनकादिधान्यविशेषवद् द्विदलं तथा संघराण्यपि द्विदलं, संगरिशब्दस्य नपुंल्लिङ्गत्वं प्राकृतत्वादितिहेतोः, दिनचर्यानवपदप्रकरणयोः लिखिताः निक्षिप्ताः फलिकावर्गे, तथाहि दिनचर्यायां “फलिआवग्गे तह संगर वल्ला चवलाय होला ये "ति, नवपदप्रकरणे तु ककमूरिकृते न दृश्यते, परं पूज्यैः कृतत्वात्तद्वृत्तौ वापि तत्रैव चान्यत्र श्रुतधरकृते लिखिता भविष्यतीति स्वयं परिभाव्याः, फलिकाच प्रायो द्विदला एव भवन्तीति भावः १३८ इत्याप्तोक्तत्वेन संगराणां द्विदलत्वं समर्थितम्, अथैतत्समर्थनार्थमेव लक्षणसद्भावं भावयति-नय संगरबीआओ तिल्लुप्पत्ती कयावि संभवइ । दलिए दुनि दलाई मुग्गाईणं व दीसंति || १३९ ।। न च संगरिबीजातैलोम्पत्तिः कदापि यन्त्रपीडनादिकालेऽपि संभवति, दलिते च संगरिबीजे द्वे दले मुद्गादीनामिव दृश्येते, ततः संपूर्णलक्षणसद्भावात्संगरं द्विदलमेव, अत एव "दहिए विगइगयाई घोलवडां घोलसिहरणि करंबो । लवणकणदहिअमहिअ संगरिगाइंमि अप्पडिए || १|| इति प्रवचनसारोद्धारगाधाद्वितीयार्द्ध व्याख्यानयद्भिः श्रीआनंदमूरिभिः स्ववृत्तावुक्तं-ल | वणकणैः जीरकलवणलेशैर्युक्तं दृधि तदपि हस्तेन मथितं वस्त्रेण गलितं तच्चापि रात्र्युषितं सत्कल्पते निर्विकृतिप्रत्याख्यानवतां, क्वापि देशे संगरिकाद्यपि तत्र प्रक्षिप्यते इत्याशङ्कयाह - परं संगरिकादावपतिते सति, तत्र तु द्विदलदोषसंभवात् न कल्पत इत्यर्थः, इत्यन्यैरप्याचार्यः संगरस्य द्विदलत्वं प्रतिपन्नमेवेत्यर्थः १३९ ।। इतिसंदेह दोलावलीवृत्तिः, तत्रासंगतसम्मतिदर्शनादेतद्वृत्तिकर्त्ता असंबद्धप्रलाप्येवावगन्तव्यः, एतन्मतस्यैतादृशस्वभाव एवेति प्राग् प्रदर्शितं बोध्यं, ननु कथमसंबद्धप्रलापित्वमिति चेच्छृणु, द्विदलविचारे For Personal and Private Use Only संगरिकाया | द्विदलताप्रतिषेधः ।।३५६।। www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy