________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
॥ ३५५॥
यस्मिन् पीड्यमानं यन्त्रादाविति गम्यं स्नेहो 'नहु' नैव भवति तच्छ्रुतधरा द्विदलं ब्रवन्ति, द्विदलेऽप्युत्पन्नं स्नेहयुत द्विदलं न भवत्येवेतिगाथार्थः ॥ १४०॥ अथौष्ट्रिकभ्रान्तिमाह
एवं विदलसरूवं भणिऊणवि भणइ विदलवग्गगयं । संगरिगाई चवलयफलिउ विदलसनोति ॥ १४१ ॥ प्रागुक्तगाथोद्भावनेन द्विदलस्वरूपं भणित्वाऽपि संगरिकादिकं द्विदलवर्गगतं - द्विदलजातीयं भणति चपलफलिकेत्र, यथा | चपलफलिका द्विदल तथा फलिकासाम्यात्संगरिकाऽपि द्विदल मिति ब्रुवाणः कीदृश: ? - 'द्विदलसंज्ञः ' द्विदला - द्विदलीभृता-स्फुटिता | संज्ञा यस्य स तथेति, एकद्विदलशब्दस्य लोप इति बोध्यमितिगाथार्थः || १४१ || अथ संज्ञाराहित्यं कुत इत्याह
जं उक्का लिअसंगरजलतरिआ दीसई फुडं णेहो । चक्खुप्फासणविसओ पञ्चकूवं चक्खुमंताणं ॥ १४२ ॥ यद्-यस्मात्कारणादुत्कालितसंगरिकाजलोपरिवर्तिनी तरिका चक्षुष्मतां चक्षुःस्पर्शनविषयीभूता प्रत्यक्षं स्फुटं स्नेहो दृश्यते, अयं भावः - खरतरेण संदेहदोलावल्यां संगरिकादौ सर्वथा स्नेहाभावो भणितः, स च प्रत्यक्षबाधितः, यत उत्कालितसंगरिका| जले या स्नेहरूपा तरिका सा चक्षुषा दृश्यते, स्पर्शनेन्द्रियेण चिकणतोपलभ्यते, एतच्चानुभवसिद्धं सर्वेषामपि सलोचनानां, प्रत्यक्षा| पलापस्तु खरतरमन्तरेण केन कर्तुं शक्यते ?, अतः प्रत्यश्वापलापित्वात् खरतरः संज्ञारहित इति गाथार्थः ।। १४२ ।। अथौ|ष्ट्रिकाभिप्रायरूढां संस्थितिमाह
Jain Education International
जं दोलावत्तीए भणिअं भणिअं च संगरं विदलं । पवयणसारोद्धारो संगरिमाइम्मि अप्पटिए || १४३ || यहोलावृत्तौ-पदैकदेशे पदसमुदायोपचाराज्ञ्जिनद तक तसं देहदोलावल्याः वृत्तौ भणितं किमित्याह-भणितं चत्ति-भणितं च संगरि
For Personal and Private Use Only
संमरिकाया द्विदलताप्रतिषेधः
।।३५५।।
www.jainelibrary.org