________________
श्रीप्रवचनपरीक्षा
विश्रामे ॥३५४||
पूपिकापर्युषितता
ANI.
| यद्वा बहुदिवससंभृतं गोरसं गोधूममण्डकं च बहुदिवससंभृतगोरसगोधूममण्डकमितिप्तमाहारः, यद्वा बहुदिवससंभृनगोरसेन बहुकाली. नघृतेन युक्तो यो गोधूममण्डकस्तमिति तत्पुरुषोऽपि,तथा च कुतस्तवाभिप्रेतपूपिकाग्रहणवार्ताऽपीति विचार्य नोऽभक्ष्यभक्षणाभ्यासः कर्तव्यः, ननु भवतु यथा तथा, शीतलपूपिकाग्रहणेऽस्माकं नीरसभोजित्वं तु संपन्नमेवेतिचेद् अहो खरतर! यदि तव नीरसाहार-| ग्रहणसमीहा स्यात्तर्हि घृतगुडादित्यागेनोष्णमप्यन्नं भुञानस्य तव नीरसाहारभोजित्वं वयमपि बाढस्वरेणोद्घोषयिष्यामः, तदेव कथं नाचरसि?,ननु तह्यस्माकं शीतलपूपिकाग्रहणे को गुण इति चेत् ,महान् गुणो वक्तुमप्यशक्यः,तत् कथमितिचेच्छृणु,तदिनपूपिकादिकं प्रायः मध्याह्न एव संपद्यते.तावत्कालं बुभुक्षासहनासमर्थस्य तब तथाविधपूपिकामिस्तावत्कालं महानुपक.रोऽन्यथा प्रथमालिका आलजालकल्पेतिकृत्वा कसेल्लापानीयग्रहणमयाहारलाम्पट्यादेवेत्यलं विस्तरेण, तथा राज्यन्तरितेऽप्यन्नादौ पर्युषितशब्दप्रयोगो यथा "गोशालकस्तु उपनन्दगृह पयुषितान्नदानाद् द्विष्ट" इति श्रीआव० वृक्ष, तथा क्वचित्प्रचुरकालस्थितावपि, यथा"वासावासं | पजोसविआणं" इत्यादिपर्युषणाकल्पे वर्षावासं पर्युषितानामित्यादि, क्वचित् पर्युषितो-व्यवस्थितः, यदागमः "जे मिक्खू अचेले परिखुसिय"ति॥ श्रीआचा० धृताध्ययने उ० (८-१८२) एतट्टीका यथा “अल्पार्थे नब् , यथाऽयं पुमानमः, खल्पज्ञान इत्यर्थः, | यः साधु स्य चेलमस्तीत्य चेलः-अल्पचेल इत्यर्थः संयमे पर्युषितो-व्यवस्थित इत्याचा टीका । एवं प्रयोगानुसारेण पर्युषितश
ब्दोऽनेकार्थ इतिगाथार्थः ।।१३९।। अथ श्रुतधोक्तां गाथामुद्भाव्यापि भ्रान्त्या संगरिकाया द्विदलत्वेन प्रवृत्तावधिकमुत्सूत्रं निराचि| कीर्षया प्रथमं श्रुतधरोक्तां गाथामाहDIL जंमि उ पीलिज्जते नेहो नह होड बितिनं विदलं । विदले विहु उप्पन्नं हजुअं होड णो विदलं ॥१४॥
KUMARRIAND
१९४०॥
॥३५४॥
For Pesonand Private Use Only