________________
श्रीप्रवबनपरीक्षा
दशानां बाह्यत्वं
iTRAN SUINTHINDIAALHAPANmAD IANSHARMAHAITHIRAIMINAITITISHEDPAIN RICHPDAINITION
युक्तिः प्राग्वदवगन्तव्या, ये त्वाञ्चलिकसार्द्धपौर्णिमीयकागमिकनामानः कुपाक्षिकास्ते पौर्णमीयकमूलका एवेति निजनिजनाम्ना विश्रामे वक्ष्यामः, तेन पौर्णिमीयके तीर्थवाद्ये सिद्धे ते तु सुतरां तीर्थबाह्या एवेति 'पद् कुपाक्षिका जीर्णा' इति जनप्रसिद्धिः ६॥ अथाधुनिकानां चतुर्णा मध्ये लुम्पाकमतं वि० १५०८ वर्षे लुम्पकलेखकात् प्ररूपणामधिकृत्य प्रवृत्तं, तत्प्ररूपणा च जिनप्रतिमानिषेधमूलिका, तन्मते वेषधराः पुनः वि० सं० १५३३ वर्षे सीरोहीप्रत्यासन्नारघट्टकवास्तव्यप्राग्वाटज्ञातीयभाणाख्यादेव प्रवृत्ताः,एतदुत्पत्तिर्विस्तरतस्तु एतन्नाम्नाऽष्टमविश्रामे वक्ष्यते, अयं च प्रवचनबाह्यतयाऽऽबालगोपालाङ्गनानामपि प्रतीत:७॥ एवं कडुकबीजापाशचन्द्राः स्वस्वनाम्ना मताकर्षका अपि गोध्या:,उपलक्षणादन्येऽप्युपधानाद्यपलापिनस्तथाभूता एवावगन्तव्याः१०॥ एते दशाप्यतीर्थकरमूलकाः न तीर्थ, किंतु मरुमरीचिकायां जलाभास इव तीर्थाभासास्तीर्थबाह्या इति ॥
ननु तपागणोऽपि वि० १२८५ वर्षे श्रीजगच्चन्द्रसरितो जातः,सोप्युक्तयुक्त्या कथं तीर्थमिति चेद् उच्यते-न हि श्रीजगच्चन्द्रसूरिर्वटगच्छात् कुतश्चिनिमित्ताद् विपरीतप्ररूपणया चन्द्रप्रभाचार्यादिवत् पृथग्भूतः,किन्तु प्रमादबशेन क्रियाशिथिलं साधुसमुदाय परित्यज्य निजगुर्वाज्ञया श्रीआणन्दविमलसूरिवत् श्रीसुधर्मस्वामिनोऽच्छिन्नपरिपाट्या समागतां दशविधचक्रवालसामाचारीक्रियां कुर्वाणं यावज्जीवमाचामाम्लतपोऽभिग्रहेण कृशाङ्गीभूतं श्रीजगच्चन्द्रमूरिं दृष्ट्वा राज्ञा तपा इत्याख्या वक्तव्येत्युक्तं,ततःप्रभृति वटगणस्यैव तपा इत्याख्या प्रससार, न ह्येतावता प्रागुक्तयुक्तिरत्रावतरति,अन्यथा श्रीसुस्थितसुप्रतिबुद्धाभ्यामेव कौटिकनाना गणः, ततोऽपि श्रीचन्द्रसूरेश्चन्द्रगच्छसंज्ञा,ततोऽपि चन्द्रगच्छीयेन श्रीउद्योतनसूरिणा श्रीसर्वदेवसूरेवटे सूरिपदकरणात् श्रीसदेवसरितो वटगच्छ इतिरूढिरित्येवं कौटिकादिगणा अप्यच्छिन्नं तीर्थ न स्युः, तस्मानामान्तरप्रादुर्भावेऽप्याचारप्ररूपणयोरच्छि-
IMM Imam ISTRATIMIMPAIGITAL AUDIHDAINITARINA
alinsan
In Education Intematon
For Personal and Private Use Only
www.
byorg