________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
||३४९||
अथ पुनरपि दृष्टान्तमाह-
जयबऽण्णतित्थिआविअ सिज्झतिअ नहु सातत्थिआ केई । तहवि परतित्थिगहिआ जिणपडिमा कप्पए नेव ।। १३२ ।। | यद्यप्यन्यतीर्थिका अपि - अन्यतीर्थिक वेषमात्रधारका अपि कदाचित्तथाभव्यत्वपरिपाकवशात् सम्यक्त्वावबोधादिसामग्र्यां सत्यां | सिद्ध्यन्ति - एकस्मिन् समये उत्कृष्टपदे दशापि मोक्षं यान्ति 'नहु' नैव केचित् स्वतीर्थिका अपि तथा सिद्ध्यन्ति, तथाप्यास्तामन्य| त्परतीर्थिकाराधनादि, चोऽप्यर्थे, परतीर्थिकगृहीतजिनप्रतिमाऽपि न कल्पते जैनानाम्, उपनयस्त्वेवम्-अन्यतीर्थिकवद् द्विदलं तश्चा| चलितरसमपि परीक्षाबाह्यमितिकृत्वा हेयमिति गाथार्थः ॥ १३२ || अथ पुनरपि लौकिकदृष्टान्तमाह-
लोएवि सुजाइकुलुप्पणो सुपरिखिओ जहा जुग्गो । न तहा बिवरीओवि अ गुणवंपि विवाहमाईसु ॥ १३३ ॥
लोकेऽपि सुज्ञातिकुलोत्पन्नः- शुद्धमातापितृपक्षोत्पन्नः सुपरीक्षितो विवाहादिकार्येषु योग्यो भवति, न तथा विपरीतोऽपि -हीनकुलोत्पन्नोऽपि कदाचिद्गुणवानपि तद्वद् द्विदलं हि पर्युषितमाद्रं सत् सकलमपि परिहरणीयं, ओदनजातं तु सुकुलोत्पन्नवत् सुपरीक्ष्य प्रायिमितिगाथार्थः ॥ १३३ ॥ अथ परिहारमधिकृत्या लौकिकदृष्टान्तमाह
उत्तमकुले असुद्धो जो जाओ सो णु चैव चइयो । विवरीअकुलं सयलं सुकुलेहिं चैव चइअवं ॥ १३४॥
उत्तमकुले योऽशुद्धो जातः नु इति वितर्क स एव त्यक्तव्यः- त्याज्यो, चिपरीत कुलं तु 'सुकुलेर्हि' ति मुकुलोत्पन्नैः सकलं 'चैव'त्ति | एवार्थे व्यवहितोऽपि सकलमेव त्याज्यम्, एवमोदनजातौ यदशुद्धं तत्तावन्मात्रमेव परिहर्तव्यं, न पुनस्तजातिमात्रं द्विदलपूपि कादिकं तु पर्युषितमा सन हीन कुलोत्पन्नवन तज्ज्ञातिमात्रमपि न्याज्यमितिगाथार्थः ।। १३४।। अथ पुनरपि लोकोत्तरदृशन्तबाहुल्यमाह
Jain Education International
For Personal and Private Use Only
पर्युषितविचार:
॥३४९॥
www.janelibrary.org