________________
श्रीप्रवचनपरीक्षा
४ विश्रामे ॥३४७॥
पर्युषितं विनष्टमपि भवेत्, तथापि बहलस्वभावमधिकृत्य चारुव्यवहारः -शोभनो व्यवहारो भवेत्, 'सो चैत्र'त्ति स एव व्यवहारः | संयतानां प्रवृत्तिनिवृत्तिहेतुरिति, अयं भावः- द्विदलं हि पर्युषितं बाहुल्येन विनम्रं स्यात् तेन ततो निवृत्तिः - अपसरणं, गृहिणा | दीयमानं सदोषमतो नास्माकं कल्प्यमितिभणित्वा परिहरतीत्यर्थः, कूराद्योदनजातं तु दीयमानं सम्यग् परीक्ष्य शुद्धमस्माकं कल्प्य | मिति भणित्वोपादने इतिगाथायुग्मार्थः॥ १२७ ॥ १२८ ॥ नन्वोदनवद् द्विदलमपि सम्यग् निरीक्ष्य यदचलितरसं तद् गृह्यते तत्र को दोष | इति पराशङ्कामुदाहरणेन परिहरति
सुविहिअनेवत्थजुओ ववहारपरिकग्विओ जहा पुज्जो ।न तहा कुतित्थलिंगी ववहारपरिकूम्वबाहिरिओ || १२९||
सुविहितनेपथ्ययुतः - सुसाधुवेषधारी व्यवहारपरीक्षितः - छद्मस्थगम्यतीर्थवर्त्तिब्रह्मव्रतादिमूलोत्तरगुणगणान्वितो यथा पूज्यो | वन्दनाभ्युत्थानादियावदाराधनविधिना आराध्यो न तथा कुतीर्थलिङ्गी - शाक्यादिलिङ्गधरः, तल्लिङ्गं तु पिच्छिकाकमण्डलुधातु| रक्तवस्त्रादिचिह्नं तेन युक्तोऽभ्युत्थानानर्हः, कुत इति विशेषणद्वारा हेतुमाह-यतः सोऽन्यतीर्थिको व्यवहारपरीक्षाबाह्यः - अयं जिनोक्तमार्गानुष्ठानपरायणो भवत्युत नेति परीक्षाया- अनर्हः, तादृगुलिङ्गे कथंचिभिश्वयतः किञ्चिज्ञानादिरूपमार्गस्यवोन्मार्गतया जिनैरुपदिष्टत्वादिति गाथार्थः || १२९ || अथ दृष्टान्तमाह
ते मइतिदंडी कविला इहपि सुद्धवयपि । भासतो दुब्भासी भणिओ उसण दुहभागी ॥ १३० ॥ येन कारणेनान्यतीर्थिक व्यवहारपरीक्षाबाह्यस्तेन कारणेन मरीचिनामा त्रिण्डिको-भरतमुतः प्रतीतः, स च निजदेशनाप्र| तिबुद्धं याहि यतिसमीपे मोक्षमार्गेकहेतुं संपूर्ण साधुधर्मं प्रपद्यस्वेत्युक्ते कपिलो जगाद - किमिति शोभनो मार्गो भवता त्यक्त इत्युक्ते
Jain Educationa International
For Personal and Private Use Only
पर्युषितविचार:
॥३४७॥
www.jainelibrary.org.