________________
श्रीप्रव चनपरीक्षा ४ विश्रामे
॥३४६॥
Jain Education
तन्दुलाद्यपि केवलजलेन राद्धं प्रायश्चलितरसं स्याद्, एतच्चाध्यक्ष सिद्धं विदले किं सुरानुभावो जातो येन तन चलितरसम् ?, एवं पूपिकादावपि भाव्यमिति गाथार्थः || १२४|| अथ प्रवचनमर्यादास्वरूपमाह
जं जं बहलसहावं पवयणमेराह रक्स्वयं भणिअं । जह बंभवयगुत्ती भणिआ न तहा य अण्णेसिं ॥ १२५ ॥
यद्यद् बहलस्वभावं - निरुपाधिकस्वरूपं वस्तु तत्प्रवचन मेरायाः - जिनशासनस्य मर्यादायाः रक्षकं भणितं दृष्टान्तमाह-यथा ब्रह्मव्रतगुप्तिः, प्राकृतत्वादेकवचनं ब्रह्मव्रतगुप्तयो भणिताः, ताश्वेमाः "वसहि कह निसिजिदिअ कुड्डंतर पुढकीलिअ पणीए । अइमायाहार विभूमणा य नव बंभगुत्ती || १ | "त्ति, न तथा तेन प्रकारेणान्येषां महात्रतानां गुप्तयो भणिता इति गाथार्थः ।। १२५ । अथ तत्र हेतुमाह
पायं गुत्तिविलोवे लोवो बंभव्वयस्स जह दिट्ठो । दिट्टिपहाणेहिं तह नन्नेसि महवयाणंपि ॥ १२६ ॥ गुप्तिविलोपे प्राय ब्रह्मव्रतस्यापि भङ्गो दृष्टिप्रधानैः सर्वज्ञेर्यथा दृष्टो न तथाऽन्येषां व्रतानामपि दान्तिकयोजना त्वेवं यथा गुप्तिभङ्गे ब्रह्मव्रतभङ्गो न तथाऽन्येषामपि, एवं पर्युषितत्वेऽपि विदलादेर्यथा चलितरसत्वं न तथा कूराद्योदनस्यापीति गाथार्थः | ॥ १२६ ॥ अथ पर्युषितयोरपि द्विदलाद्विदलयोः कथिताक्कथित नियमाभावं प्रदर्श्य व्यवहारनयसमर्थनाय गाथायुग्ममाह - जविअ विदलप्पमुहं पज्जुसिअं किंचि होइ अविणद्वं । किंचिवि ओअणजायं विणट्टमवि होइ पज्जुसिअं ॥ १२७॥ ॥ तहविअ बहलसहावं अहिगिचा होड़ चारु वबहारो । सो चेव संजयाणं पवित्तिनिवित्तिउत्ति ॥ १२८॥ यद्यपि च द्विदलप्रमुखम् आदिशब्दात्पूपिकादिग्रहः, किंचित्पर्युषितमविनष्टं चलितरसं न भवेदपि, पुनः किञ्चिदोदन जातं
For Personal and Private Use Only
पर्युषितविचार:
।।३४६ ।।
www.jainelibrary.org.