________________
श्रीप्रवपरीक्षा ४ विश्रामे
॥३४४|| |
नणु पज्जुसिअविदलप्पमुहं पाएण नीरसं भणिअं । तंचिअ मुणीणमुचिअं तप्पडिसेहो न सिं सेओ ॥ ११८ ॥ ननु भोः पर्युषितद्विदलप्रमुखं प्रायेण नीरसं भणितमागमे इति गम्यं, 'तं चिअ 'ति तदेव मुनीनां-जितेन्द्रियाणामुचितं-योग्यं तत्प्रतिषेधः 'सिं'ति तेषां मुनीनां न श्रेयानिति पूर्वपक्ष इति गाथार्थः ॥ ११८ ॥ अथोत्तरमाह
तन्नो जुत्तं जम्हा गहिअवं तं हविज्ज साहूणं । जं संजमउवगारी बाहाकारी न कहआवि ।। ११९ ।। तत्प्रागुक्तं न युक्तं यद्-यस्मात्साधूनां तदेवोचितं यत्संयमोपकारी - चारित्रक्रियापुष्टिकरं, न पुनर्बाधाकारि-संयमक्रियोपहन्त कदाचिदपीतिगाथार्थः ||११९|| व्यतिरेकेऽतिप्रसङ्गादिदोपमाह
toore भूइप्पमुहं गहिअवं न उण घयगुडप्पमुहं । एवं विआणिऊणं पवयणमेरा न मोत्तन्वा ॥ १२० ॥ अन्यथा नीरसाहारग्रहणमात्राग्रहे भृतिप्रमुखं भस्मादिकमादिशब्दाच्छटितपतितशुष्कपलाशपत्रादिग्रहः तदेव ग्रहीतव्यं भोज्यं स्यात् सर्वेष्वपि तथाविधवस्तुषु भस्मादेरेव नीरसत्वात्, न पुनर्धृतगुडप्रमुखं घृतगुडदधिदुग्धपक्कान्नादि, उष्णेभ्योऽपि कूरादिभ्यो घृतादेरतिशयेन सारस्याद्, एवममुना प्रकारेण विज्ञाय प्रवचनमर्यादा न मोक्तव्या, सा चैवं - श्रावककुलोत्पन्ना हि अभक्ष्यभो जिनो न भवन्ति, द्विदलादिकं तु पर्युषितं प्रायो विनस्वभावमनन्तकायादिवदभक्ष्यमिति ज्ञात्वा वर्जनीयमितिगाथार्थः॥ १२० ॥ अथ तस्मात्किं कर्त्तव्यमित्याह
Jain Education International
पज्जुसि अविदलमाई अलं पाएण कुहिअलालजुअं । तेणं तवइरित्तं जुत्तं साहूण कुराई ॥ १२१ ॥ पर्युषितद्विदलादि आर्द्र- जलक्लिन्नं, न पुनः शुष्कमपि, प्रायेण - बाहुल्येन क्वथितं च भवेत्, मापादि क्रथि ं चलितरसं पूपिकादि
For Personal and Private Use Only
पर्युषितविचार:
॥३४४॥
www.jninelibrary.org