SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥३४० ॥ भ्युपगम एव, किंतु तद्ग्राहिणां हीलनावचोऽपि यदुक्तं- "मुद्धाणाययणगया" इत्यादि गणधर सार्द्धशतके १०५ गाथा, तट्टीकायां तपागणसाधूनां वर्णनं यथा मलमलिनगात्र दौर्गन्ध्यपात्रावश्रावणतन्दुलधावनादिग्राहिणामेकाकिविहारिणां गुरुकुलवासत्यागिनां तपस्विनामित्यादिवर्णनं कुर्वन्नात्मनः स्नानादिकरणं सूचितवान्, अवश्रावणादिहीलनेन च सिद्धान्तानभ्युपगन्तृत्वमपि यतः सिद्धान्ते तदुपादानात्, तथाहि - "सेअं पुण पाणगजायं जाणेजा, तंजहा - उस्सेइमं १ संसेइमं२ चाउलोदगं वारे अण्णयरं वा तहप्पगारं पाणगजाये" इत्यादि यावत् फासूअं जाव पडिगाहेजा ॥ से भिक्खुर वा समाणे सेअं पुण पाणगजायं जाणेजा, तंजहा- तिलोदगं वा४ तुमोदगं वा५ जवोदगं बा६ आयामं बा७ सोवीरं वाट सुद्धविअडं वा९ अण्णयरं वा तहप्पगारं पाणगजायं" इत्यादि यावत् भिक्खुस्स भिक्खुणीए वा सामग्गिनं" इतिश्रीआचा० द्वि० ० प्रथमाध्ययने सप्तमोदेशके एतडीकैकदेशो यथा 'अहे 'त्यादि सुगमं, पानकाधिकार एव विशेषार्थमाह-स भिक्षुगृहपतिकुलं प्रविष्टो यः पुनः पानकजातमेवं जानीयात्, तद्यथा 'तिलोदर्क' तिलैः केनचित्प्रकारेण प्रासुकीकृतमुदकम्, एवं तुपयेवैर्वा, तथा आचाम्लम् - अवश्यामं सौवीरम् - आरनालं शुद्धविकटं - प्रासुकम् अन्यद्वा तथाप्रकारं द्राक्षापानादि पानकजातं - पानीयसामान्यं पूर्वमेवावलोकयेत् - पश्येदित्यादि" अत्र शुद्धविकटं प्रामुकमुदकमुक्तं, तच्च चूर्णिकारादिभिरुष्णोदकमेव व्याख्यातम्, अतः सामान्येन प्रामुकोक्तावपि उष्णोदकमेव ज्ञेयं, ग्रन्थान्तरसम्मतेस्तथैव दर्शनात् प्रासुकस्यापि तथात्वेन विशेषितत्वाच्च यदागमः - "उसिणोदग तत्तफासुअं ति दशवै० (अ० ५उ - १-७७ चू० ) अन्यच्छब्देन तु वक्ष्यमाणोद्देशक भणितानि पानीयानि गृहीतानि तानि चेमानि-से भिक्खु वार जाव समाणे से जं पाणगजायं जाणेजा | तं जहा - अंबपाणगं वा१० अंबाडगाणगं वा ११ कविपाणगं वा १२ मातुलुंगपाणगं वा १ ३ मुद्दिआपाणगं वा १४ दालिमपाणगं वा१५ Jain Educationa International For Personal and Private Use Only कसेलकादिजलाधिकारः ॥३४०॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy