SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ।।३३९ ।। श्रावणमाम्लं च तुर्यो रसः ते एव प्रायेण व्यञ्जने यत्र भोजने ओदनकुल्मापसक्धुप्रभृतिकं तदाचामाम्लं समयभापयोच्यते, किंचकाथकसेल्लकादिना जलपरिणमनकालोऽपि स्वबुद्ध्या सम्यकथं ज्ञातुं शक्यते, यतः "वण्णरसगंधफासा जह दवे जम्मि उकडा हुति । तह तह चिरं न चिह्न असुभेसु सुभेसु कालेसु || १ || इति बृहत्कल्प भाष्यं, तद्वृत्तिर्यथा - यस्मिन् द्रव्ये यथा यथा वर्णग|न्धरसस्पर्शा उत्कटा उत्कटतरा भवन्ति तथा तथा तेन तेन द्रव्येण सह मिश्रितमुदकं चिरं न तिष्ठति, क्षिप्रं क्षिप्रतरं परिणमत इति भावः, किमविशेषेण ?, नेत्याह-ये अशुभा वर्णादय उत्कटास्तेष्वेव क्षिप्रं परिण मते, ये तु शुभा वर्णादयस्तेषूत्कटेषु कालेन परिणमते, चिरादित्यर्थः । इति कल्पवृत्तौ चतुर्थग्वण्डे पत्र१७५, शुभद्रव्यं च क्वाथकसेल्लकादि, अतस्तत्प्रक्षेपणे नीरस्य परिणम|नकालो न ज्ञायतेऽनुकूलत्वादेव, किंच- काञ्जिकादिजलग्रहणे जिनाशैव कारणं दृश्यते, न पुनः स्वादमुखलम्पटतेति सर्वजनप्रतीतं, | काञ्जिकजलं चागमोक्तं परित्यज्य क्वाथकसेल्लकादिजलग्रहणं तु स्वादसुखपरत्वमेव व्यञ्जयति तद्ग्राहिणां ननु शुभद्रव्यप्रक्षेपे परिणमनकालापरिज्ञाने सितापानी यस्याप्यग्रहणप्रसङ्ग इति चेन्मैवं, सितापानीये तु स्वादार्थ पित्तोपशमनाद्यर्थं वा सिताप्रक्षेपः क्रियते, सा च नाल्पा संभवति, किंतु बह्वेव, अन्यथा स्वाद पित्तोपशमनाद्यसंभवात्, क्वाथकसेकादिनीरं तु स्वल्पेनैव चूर्णेन क्रियते, ततो न तत्परिणतिशुद्धिरल्पस्वादेऽपि गृह्यते, ततो न सितापानीयसाम्यं किंच- किंचिद्रव्यं तथाविधमेव भवति यन्मधुरं स्वल्पं च सदपि वर्णं परावर्त्तयति यथा मध्यादि, एवं लगणादिपानीये योज्यं, किंच- सिद्धान्तोक्तायामकाञ्जिकादिजलहीलनां कुर्वतः खरतरस्य नाम्नाऽपि भिक्षुत्वासंभवः, यतः - “ आयामगं चैव जवोदणं च, सीअं सोवीरं जबोदगं च । नो हीलए पिंड नीरसं तु. पंतकुलाई परिवर जे स भिक्खू || १ ||" इति श्रीउत्तरा० ताडपानीयग्रहणं मिश्रोर्लक्षणमुक्तं तच खरतरेण नाभ्युपगतं न चान Jain Education International For Personal and Private Use Only कसेलकादिजलाधिकारः ॥ ३३९॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy