________________
श्रीप्रव
नपरीक्षा ४ विश्रामे
||३३७||
भणतो नमोकारमुच्चरिअ भणड़ करेमि भंते । पोसहं इत्यादि यावद्वोसिरामित्ति, एवं सामायिकेऽपि पंचमंगलं पढित्ता करेमि भंते !,' | इत्याद्येवंविधोऽपि तेन जिनदत्तेन त्यक्तः, एकवारमुच्चारं परित्यज्य त्रिवारमभ्युपगत इत्यत्र द्विरुच्चरणमधिकमितिगाथार्थः ॥ ११२ ॥ | अथ पुनरप्यधिकमुत्सूत्रमाह
साहूणं उवहाणं गिहिव अहिअंति जेण तकिचं । आवस्यजोएणं सिद्धं सिद्धं बुद्धीणं ॥ ११३ ॥ गृहिवत् श्रावकवत् साधूनामप्यावश्यकश्रुताराधनार्थमुपधानवहनं यत् तदधिकं, येन कारणेन तत्कृत्यं षडावश्यकाराधनलक्षणं | श्री आवश्यक योगेनैव सिद्धं, केपां ? - सिद्धान्तबुद्धीनां तत्वविदां न पुनः कुपाक्षिकाणामपि ननु स्वयमुपधानोद्वहनमन्तरेण कथं श्रावकाणामुद्वाहयितुं शक्यते इति चेत् मैवं यतः सामायिकपौषधद्वादशवतोच्चारादिष्वपीयमेव रीतिः प्रसज्येतेति स्वयं विचारणीयमितिगाथार्थः ॥ ११३॥ अथ पुनरपि तदाह---
| उस्सग्गेण कसेल्लयजलगहणं साहुणावि ही मोहा । तंचिअ मट्टिअभायणसंगइअं कह णु तसजयणाः ॥ ११४ ॥ उत्सर्गेण - मुख्यवृत्या कसेल्लकजलग्रहणमुपलक्षणात् क्वाथजलादिपरिग्रहः, ही इति खेदे, मोहात्- चारित्रमोहनीयोदयात् तथा श्रद्धानपुरस्सरं तथाविधजलग्रहणं साधोरपि श्रावकाणां सुतरामित्यपिशब्दार्थः तथापि - कसेल्लकादिजलग्रहणमपि च मृत्तिकाभाजनसंगतिकं - कुण्डादौ प्रक्षिप्तं नु इति वितर्क, कथं त्रसजन्तुयतनेति ?, न कथमपीत्यर्थः यतस्तथाविधं शीतलजलं कुम्भादिमृत्तिकाभाजनगतं प्रायः शीघ्रमेव श्रसादिजन्तुयोनिः स्यात्, तद्यतना साधूनां न संभवति, ननु शुद्धविकटमुष्णोदकं वर्णान्तरादिप्राप्तं | शुद्धजलं वा इति श्रीकुलमण्डनमूरिकृतपर्युषणाकल्पावचूर्णो तथा संदेहविषौषध्यां चोक्तं कथं कसेल्लादिनीरं न गृह्यते इति
Jain Education International
For Personal and Private Use Only
कसेलका
दिजलाधिकारः
॥३३७||
www.jainelibrary.org.