________________
श्रीप्रबचनपरीक्षा ॥ ३॥
श्रीआनन्द
विमल| स्तुतिः
इति मूलातिशयचतुष्टयविशिष्टो भगवान् भवत्येव विघ्नोपघातक इति भावमङ्गलभूतं भगवन्तं श्रीवीरजिनं नमस्कृत्येति गाथार्थः |॥१॥ अथ गाथाषद्केन ग्रन्थकर्तुरुपकर्तृन् भावमंगलभूतान् त्रीन् सूरीन् नमस्कर्तुमाद्यमरिस्तुतये गाथायुग्ममाह
जेणं दूसमसमए कुपक्खबहुले अभारहे वासे। अच्छिन्नपि अतित्थं पभाविअं पुण्णचरिआए ॥२॥ चंदुत्व सोमलेसो सयलविहारेण लोअणाणंदो॥ आणंदविमलसूरी संविग्गो सवविक्खाओ ॥३॥
येन भगवता भारते वर्षे अस्मिन् भरतक्षेत्रे 'कुपक्षबहुले वक्ष्यमाणलक्षणैर्दिगम्बरादिपाशपर्यन्तैः कुमतैर्व्याप्ते 'दुष्षमासमये' | पञ्चमारकलक्षणे 'अच्छिन्नमपि' सततप्रवृत्तिमदपि तीर्थ 'चाउवण्णो संघो तित्थ मिति वचनात् श्रमणादिसमुदायलक्षणं 'पुण्णचर्यया पवित्रक्रियया 'प्रभावितं' प्रौढिमानं प्रापितम् , अयं भावः-यावज्जीवं षष्ठाष्टमतपोविधानेन तीर्थकदाज्ञाप्रवर्तनपुरस्सरं सदुपदेशदानेनानेकेभ्यपुत्रशतप्रवाजनेन च 'अहो एते जैनप्रवचने महानुभावाः विद्यमानामपि धनादिसम्पदं परित्यज्य दुष्करक्रियाकारिण' इत्यादिरूपेण सकलजनप्रशंसां प्रापितमिति । अत्राच्छिन्नमिति तीर्थविशेषणेन वक्ष्यमाणानां दिगम्बरादिपाशपर्यन्तानां स्वमति| विकल्पितोपदेशेनात्मसात्कृतस्य श्रमणाभासादिसमुदायस्य तीर्थत्वं निराकृतं, नहि कुपाक्षिकसमुदायस्तीर्थ भवितुमर्हति, तस्य स्वस्वमताकर्षकशिवभूत्यादिमूलकत्वेन तीर्थकरादेव सततप्रवृत्तिमचाभावात् , तच्चैवं-दिगम्बरस्तावत् श्रीवीरनिर्वाणात् नवोत्तपदशत (६०९) वर्षातिक्रमे शिवभूत्यपरनाम्नः सहस्रमल्लतः संजातः, यदागमः-"छवाससयाई नवुत्तराई तइआ सिद्धिं गयस्स | वीरस्स। तो बोडिआण दिट्ठी रहवीरपुरे समुप्पन्ना" १॥ इति, अत्र दिगम्बरस्तावदित्थं प्रष्टव्यः-भो दिगंबर! त्वदुत्पत्तेः पूर्व श्रीवीरजिनप्रवर्तितं तीर्थमासीन वा, आसीच्चेत तर्हि बोटिकानुत्पत्तावनन्यगत्या श्वेताम्बर एव तीर्थ सम्पन्नम्, अथ नासीत् |
For Per
and Private Use Only