________________
श्रीप्रवचनपरीक्षा ॥ २ ॥
| वर्त्तमानतीर्थाधिपतिः सान्वर्थनामा श्रीमहावीरोऽपश्चिमो जिनेन्द्रस्तमित्यर्थः, किं कृत्वा ? - ' प्रणम्य' मनोवाक्कायग्रही भावेन त्रिधा | नमस्कृत्येत्यर्थः, किंलक्षणं वीरजिनं १ - 'ज्ञाननिधानं ' ज्ञानं समस्तवस्तुविषयकसाक्षाद्यथार्थावभासरूपं तस्य निधानमिव यः, | यथा रत्नानां निधानमाश्रयस्तथा भगवानपि केवलज्ञानात्मकत्वेनातीतानागतवर्त्तमानकालवर्त्तिसमस्तवस्तुप्रकाशरूपस्याश्रय इति ज्ञानातिशयः १, पुनः किंभूतं ? - 'असुरराजकृतशरणं' असुरराजः - चमरेन्द्रस्तेन कृतं शरणं यस्य स तथा तम् । शरणकरणं त्वेवम् | - एकदा सद्यस्कोत्पन्नश्च मरेन्द्रः स्वशीर्षोपरिसिंहासनस्थं शक्रं निरीक्ष्योत्पन्नेर्ण्यः शक्राशातनधिया कदाचित् शक्रपराजितः श्रीवीरजिनशरणात् मे मोक्षो भवत्विति श्रीवीरजिनं शरणीकृत्य सौधर्मं गतः शक्रपराजितो मीतः सन् रक्ष रक्ष वीरेति | ससंभ्रमशब्दाकुलः श्रीवीरचरणयोरन्तराल एव प्रविष्टः, दत्तोपयोगेन शक्रेण श्रीवीरशरणाद् विमुक्त इत्यपायापगमायिशयः २, | पुनरपि कीदृशं वीरं ? - 'सुरवरशीर्षविभूषणचरणरजसं' सुखराणां शक्रेशानादीनामिन्द्राणां शीर्षाणि मस्तकानि तेषां विभूषणम्| अलंकरणशीलं चरणयोः - पादयोः रजो-रेणुर्यस्य स तथा तम्, प्रायो मर्त्यानाममर्थाः पूज्याः तेषामपि शक्रेशानादयो देवेन्द्राः, | तेषामपि भगवान् पूज्य इति पूज्यपूज्यपूज्यत्वात् पूजातिशय: ३, पुनरपि कीदृशं ? - 'चारुवयणवयं' ति चारुवचनव्रजं, चारुः| प्रधानः स्यात्पदलाञ्छितत्वेनान्यतीर्थिकैरवाध्यो वचनानां घटपटस्तम्भकुम्भाम्भोरुहादिपदार्थाभिधायकवाक्यादीनां व्रजः-समूहो | यस्य स तथा तम्, यद्वा चातुर्गतिकानामपि प्राणिनां दुःखोपनिपातोपतप्तानां शरणभूतत्वेन चारु - प्रधानं वदने - मुखे वचो - वचनं यस्य स तथा तम्, दुःखापगमहेतुत्वेन जिनवरवचनादन्यत् किमपि शरणं नास्ति, यदुक्तं वाचकमुख्यश्रीउमास्वातिवाचकैः"जन्मजरामरण भयैरुपद्रुते व्याधिपीडिते लोके । जिनवरवचनादन्यत्र नास्ति शरणं क्वचिल्लोके ॥ १ ॥” इति वचनातिशयः ४ ।
Jain Education International
For Personal and Private Use Only
मंगलादि
॥ २ ॥
www.jainelibrary.org