________________
श्रीप्रववनपरीक्षा ४ विश्रामे
॥ ३२३ ॥
अड़ पायं बहु स्वायं वरपरवयणाओं वरयरो सूरी। नवअंगिवित्तिकारो तमसचं भिन्नमवि वोच्छं || ८६ ॥ अतिप्रागुक्तयुक्त्यपेक्षया पार्थक्यसूचकः खरतरवचनात् - नवाङ्गवृत्तिकारोऽस्मदीयः खरतर इत्येवंरूपेण खरतरवचनाच्चवाङ्गवृत्ति| कारः खरतर इति बुडू ख्यातं प्रायः, प्रायोग्रहणात्प्रवचन परमार्थवित्स्वस्मदीयप्राचीनाचार्येषु न ख्यात इत्यर्थः, तद्वहु ख्यातमसत्यं, | मिनमपि वक्ष्ये इतिगाथार्थः ॥ ८६ ॥ अभोक्तसमर्थनाय युक्तिमाह -
जह सिरिजिणेसरो सो खरयरनामेण होड़ सुपसिद्धो । ता कहमम्हायरिआ खरयरनामेण धिककुजा ॥८७॥ यदि श्रीजिनेश्वरस्वरिः खरतरनाम्ना सुप्रसिद्धो भवेत् ता - तर्हि अस्मदाचार्याः- श्रीसोमसुन्दरसूरिप्रभृतयः खरतरनाम्ना कथं तान् चिक्कुर्युः - धिकारं कुर्वीरन, धिकारोल्लेखमाह - "हुं नन्देन्द्रियरुद्रकाल ११५९ जनितः पक्षोऽस्ति राकाङ्कितो, वेदाभ्रारुण१२०४काल औष्ट्रिकभवो विश्वार्क १२१३ कालेऽचलः । पट्यर्केषु १२३६ च सार्द्धपौर्णिम इति व्योमेन्द्रियार्क १२५० पुनः, काले त्रिस्तुतिकः कलौ जिनमते जाताः स्वकीयाग्रहात् ||१||" इत्यत्र राकास्त निकादिवत्खरतरोऽपि कलौ स्वकीयाग्रहाद्-अभिनिवेशाजात इत्युक्तं, तथा “आज्ञाभङ्गान्तरायोत्थानन्तसंसारनिनिर्भयैः । सामाचार्योऽपि पाश्चात्यैः, प्रायः स्वैरं प्रवर्तिताः॥ १ ॥ उपधानप्रतिक्रान्तिजिनार्थाधिकाः । न्यूनिता दुष्षमादोषात्प्रमत्तजनताप्रियाः || २ ||" इत्यत्र स्त्रीजिनाच निषेधकः खरतरः सोऽप्यनन्तसंसारी भणित | इत्यादि प्रागुक्तं श्रीजिनेश्वरसूरेः खरतरत्वे कथं संभवति ?, न संभवतीति न खरतरचिह्नं तस्येतिगाथार्थः ||८७|| अथास्मदीया आचार्याः न केवलं स्वरतरोऽनन्तसंसारीत्येवमुक्तवन्तः, किंतु श्री अभयदेवसूरिं प्रभावकमपीत्याह
पणतावि पभावयचरिए भगदेवहेमचंदाई । उस्सुत्तमग्गवडिओ पभावगो होड़ नं विरोहा ॥८८॥
Jain Education International
For Personal and Private Use Only
श्री अभय
देवा न
खाद्याः
॥ ३२३ ॥
www.jainelibrary.org.