SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ।।३१८|| वन्दितास्तच्च घटत एव यतः प्रायो लिङ्गिनः परस्परं वन्दनादिक्रियाः कुर्वाणाः संप्रत्यपि दृश्यन्ते, तर्हि संविप्रत्वेन सर्वत्र सर्वजनप्रसिद्धान् श्रीसो मतिलकसूरीन् कथं न वन्दते ?, परमेतद्वन्दनादिकं श्रुत्वा न किंचिदुत्सहनीयं, नवा तदनुकूलतया प्रवर्त्तनीयं, 'वंदिअ वीरं पडिनिअत्तो 'ति सिद्धान्तवचनाच्छ्रीमहावीरं वन्दित्वा गतोऽपि संगमकाऽमरः श्रीसौधर्मेन्द्रेण स्वर्गान्निर्वासितः, न पुनः श्रीमहावीरवन्दनं चेतसि धृत्वा प्रशंसितः, एवमुत्सूत्र भाषिणो वन्दनादिक्रियां कुर्वाणा अप्युपेक्ष्य यथाशक्ति तिरस्करणीया इति, किंच |-यद्यपि कोऽप्युत्त्रभाषी तथाविधप्रकृत्या भद्रको निश्वयतः सम्यक्त्वभागपि तथापि 'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इतिन्यायात् यावन्तस्तन्नामधारकास्ते सर्वे संक्लिष्टपरिणामा एव भाष्यन्ते तेषां दर्शनमपि सम्यग्दृशामशुभबन्धहेतुः, यदागमः - "उम्मग्गदेसणाए चरणं नासंति जिणवरिंदाणं । वावण्णदंसणा खलु नहु लब्भा तारिसा दद || १ ||" इतिश्रीवन्दनकनिर्युक्तौ (११५४) अस्याचूर्णे " खलु सदा जड़ के निच्छयविहीए अवावण्णदंसणा तहवि वावण्णदंसणा इव दट्ट्वा ते अ दटुंपि न लब्भा, किमंग पुण संवासो संभुजणा संथवो वे" त्यादि श्री आव० चू०, अयं भावः - यद्यप्यवसरविशेषे जिनप्रभमूरिरपि सुविहितानुरागीभवेत्तथाप्यागमदत्तदृष्टीनां यावत्तनाम धत्ते तावद्रष्टुमप्यकल्पयः कथं प्रभावकतया स्तवनाई ?, उपदेशसप्ततिकाकारेण तु तथा वर्णितः, अनाभोग एव तत्र कारणं बोध्यमितिगाथार्थः ॥ ८१ ॥ अथोपदेश सप्ततिकाविषये किं संपन्नमित्याह पण तुम्हाणं गंधे भणिअंति वयणमवऽजुत्तं । अणभोगोऽवि पमाणीकओ अ हुजा अभिणिवेमो ॥ ८२ ॥ एतेन प्रागुक्तप्रकारेणानाभोगसिद्धौ युष्माकं ग्रन्थे उपदेशसप्ततिकालक्षणे श्री अभयदेवसूरिभ्यः खरतरगच्छः प्रतिष्ठां प्राप्त इत्यादिवचनमपि खरतराणामयुक्तं, तत्र हेतुमाह-यत इति गम्यं यतः कारणादनाभोगोऽपि प्रमाणीकृतः अनाभोगतोऽपि निज Jain Educationa International For Personal and Private Use Only ENTANDO खरतरचर्चा ॥३१८ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy