________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥३१७॥
यतस्तत्प्रतिबोधितोऽपि स्त्री पूजा निषेधादिलक्षण मौष्ट्रिकमार्गमेव श्रद्धत्तवान्, न पुनस्तीर्थकर भाषितं तीर्थसम्मतं मार्गम्, उपदेशस | प्रतिकाकारस्तु निजपूर्वाचार्यविरचितप्रकरणानुपयोगेनाष्ट्रिककृतप्रकरणादिविश्वासेन च प्रवचनोपघातकमपि जिनप्रभं म्लेच्छप्रतिबोधकमात्रेणापि प्रवचनप्रभावकतया वर्णितवान्, अत एव पं० सोमधर्मस्यानाभागः स्फुट एव अध्यक्षसिद्धः, ननु जिनप्रभेण तपागणः प्रशंसितोऽपि दृश्यते, तथाहि - "पुरा श्रीजिनप्रभसूरिभिः प्रतिदिननत्रस्तवननिर्मापणपुरस्सरं निरवद्याहार ग्रहणाभिग्रहवद्भिः | प्रत्यक्षपद्मावतीदेवीवचसा अभ्युदयिनं तपागच्छं विभाव्य भगवतां श्रीसोम तिलकसूरीणां खशैक्षादिपठनविलोकनाद्यर्थं यमकश्ले| पचित्रच्छन्दोविशेषादिनवनवभङ्गिसुभगाः सप्तशतीमिताः स्तवा उपदीकृताः निजनामाङ्किताः, तेप्ययं सर्वसिद्धान्तस्तवो बहुपयोगि त्वाद्वित्रियते इति जिनप्रभमृषिकृतसिद्धान्तस्तवावचूर्णी, तथा क्वापि - " श्रीशत्रञ्जययात्रायै गच्छता जिनप्रभेण सिद्धपुरे तपाग|णनायकाः श्रीसोमतिलकसूरयो बह्वाम्बरेण वन्दिता इत्यपि लिखित दृश्यते तत्कथं घटत इतिचेदुच्यते, यत्सिद्धान्तस्तवावच्ण | लिखितं तत्तु तदीयैरेव, न पुनः केनाप्याप्तभृतेन सम्मतेनात्मीयेन पूर्वजेनेत्थं लिखितम्, अतः कथं सम्यगास्थापूर्वक निर्णयः १, किंचयत् स्तवावचूर्णी प्रत्यक्षपद्मावतीवचसेत्युक्तं तच्च स्वप्नेऽपि नास्माकं श्रद्धानविषयः, यतो नद्युत्सूत्र भाषिसमीपे सम्यग्दृष्टिदेवता प्रादुभवति, किंतु ततो दूरत एव नश्यति, तस्माद् यथा मम स्वझे शासनदेवतया भणितं यत् श्राद्धप्रतिष्ठा पूर्णिमापाक्षिकं चानादि| सिद्धं त्वया न मोच्यमिति सङ्घस्य पुरचन्द्रप्रभाचार्येण भणितं तथा यथाऽऽञ्चलिकमताकर्षकनरसिंहोपाध्यायेन पावकगिरौ मिध्यादृक | कालिकादेवी आराधिता लोकानां च पुरो मम चक्रेश्वरी प्रत्यक्षीभूतेति निजमतविश्वासोत्पादनाय स्वप्रौढिमज्ञापनाय चोक्तं, तथा जिनप्रभोऽपि किंचित्क्षेत्रपालादिकदेव विशेषमाराध्य मम पद्मावती प्रत्यक्षीभूतेति प्रोक्तवानितिश्रद्धेय यत्तु सिद्धपुरे सो मतिलकसूरयो
Jain Educationa International
For Personal and Private Use Only
खरतरचर्चा
॥३१७॥
www.jainelibrary.org.