________________
खरतरचर्चा
श्रीप्रवचनपरीक्षा ४विश्रामे ॥३१६||
जम् ।।२।।" इत्यादिः सदाचारोऽपि तेन पापात्मना निन्दितः, एतच्च जिनप्रभसूरिकृते तपागणदूषणशतके,नचैवमनेनैव सदाचारो निन्दितः, किंत्वेतत्कुलक्रमस्त्वयमेव, तथाहि "मुद्धाणाययणगया चुक्का० मग्गाउ जायसंदेहा। बहुजणपिढिविलग्गा दुहिणो हुआ समाइआ॥१॥" इतिगणधरसार्द्धशतके.अत्र वृत्ती-पौर्णमीयकादिषणद्वारा तपो षणीयः,यथा लिखितं तथा चाह,अथवा मलिनगात्रदुर्गन्धपात्रावश्रावणतन्दुलधावनादिपायिनां गुरुकुलवासत्यागिनां तपस्विनामित्यादि भणितं, तच्च सचेतनानां श्रोतृणां धर्मप्राप्तिहेतुरप्येतेन विपरीततया परिभाव्य लिखितं तच्चायुक्तमेव,यतो मलादिधारणं तु साधूनामुचितमेव, यदागमः-"सिणाणं अदुवा ककं, लुद्धं पउमगाणि अ। गायस्सुबट्टणठाए, नायरिंति कयाइवि ॥२।। इति दश० (२७२* ) तथा "किलिन्नगायमेहावी, | पंकण व रएण वा। प्रिंसु वा परितावेण, सायं नो परिदेवए ॥१॥ वेइज्ज निजरापेही, आरिअंधम्मणुत्तरं। जाव सरीरभेउत्ति,जल्लं कारण धारए ॥२॥ इति उत्तरा० (८४-८५*) तथा "आयामगं चेव जवोदणं च, सीअंसोबीरं जवोदगं च। नो हीलए पिंडनीरस्स पन्तं, कुलाई परिवए जे अभिरकू ॥१॥ इति श्रीउत्तरा० (५०६*) तथा पर्युषणाकल्पेऽपि "चउत्थभनियस्स" इत्यादि प्रतीतमेव, एवमागमोक्तं तन्दुलधावनादिपानं तु साधूनां युक्तमेव, यच्चोक्तं 'गुरुकुलवासत्यागिनां तच्चाध्यक्षबाधितं, वक्तुरेवानाप्तत्वसूचकम् , एवं जिनप्रभेण तत्पूज्यैश्च यानि कृत्यानि जिनेन साधूनां भूषणतया भाषितानि तानि दृषणतयोद्भावितानि, अत एव श्रीमुनिसुन्दरसूरिभिः प्रागुक्तप्रकारेण स्तनिकवत् खरतरोऽप्यनन्तसंसार्यव, तन्मध्यपतितो जिनप्रभोऽपि म्लेच्छाधिपतिप्रतिबोधकोऽपि प्रवचनोपघात्येव, उत्सूत्रभाषिणां प्रवचनोपघातकत्वनियमात , न पुनः प्रवचनप्रभावकः,अन्यथा दिगम्बरादीनामपि प्रवचनप्रभावकत्वं स्यात् , यतस्तत्प्रबोधिता राजानोऽद्यापि दक्षिणस्यां विद्यन्ते, तस्माद् म्लेच्छादिप्रतिबोधनोद्भावनमकिश्चित्करमेव,
HAMICRATHIMIRIRAMAItalia
॥३१॥
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org