________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥३१३॥
| तत्खरतरवचनानामनुवादः, उक्तवचनस्य वादोऽनुवाद इतिकृत्वा तत्खरतरवचनमेवानुद्योक्तं न पुनस्ताच्चिकम्, अनाप्तवचनानामनुवादस्याप्यतात्विकत्वाद्, अनुवादोऽपि केषां भवतीत्याह-भद्रकाणां प्रवचनानुपयोगे सत्यकुटिलानाम्, एतेऽपि सम्यग्व| तारो भविष्यन्तीति सरलमतीनां सरलमतयो हि प्रायः सरलमेव पश्यन्ति, यदुक्तम् - "सरलगतिः सरलमतिः सरलात्मा सरल| शीलसंपन्नः । सर्वं पश्यति सरलं सरलः सरलेन भावेन || १||" इति, अधासत्यानुवादे दृष्टान्तमाह- 'जहे' त्यादि, यथा कल्पव्या| ख्याने पर्युषणाकल्पव्याख्याने क्वचित्कल्याणकपट्कं तत्खस्तरकृत संदेह विषौषध्युक्तानुवाद एव, पञ्चाशकादिग्रन्थानुपयोगादिति | गाथार्थः ॥ ७८ ॥ अथैवमनुवादः कथं स्यादित्याशङ्कापराकरणाय दृष्टान्तभूतां गाथामाह -
|
पढमंगदीविआए उज्जोअणमृरि स्वरयरे गच्छे । लिहिअं दट्टु सरलो को ण भासिज अणुभासं? ॥७८॥ प्रथमाङ्गदीपिकायां-खरतरकृताचाराङ्गदीपिकाप्रशस्तौ “गच्छः खरतरस्तेषु, समस्ति स्वस्तिभाजनम् । यत्राभूवन्गु गजुषो, गुखो गतकल्पपाः || १ || श्रीमानुद्योतनः सूरिर्वर्द्धमाना जिनेश्वरः । जिनचन्द्रोऽभयदेवो, नवाङ्गवृत्तिकारकः ।। " इत्यादी खरतरगच्छे श्रीउद्योतनसूरिरुक्तः, एवं जेसलमेरुप्रासादे शिलामुत्कीर्य लिखितं, तादृशं च दृष्ट्वा कः सरलः पुमान् भाषामनुवादं नो भाषेत नव| दे ?, अपितु सरलो जनो वदेदेव, अयं भावः-यथा आचाराङ्गदीपिकादौ श्रीउद्योतनसूरिप्रभृतयः खरतरगच्छे लिखितास्तथा क्वचिच्छ्री अभयदेवसूरिरित्याद्यपि, तच्च तथा दृष्ट्वा केनचिदस्मदीयेन लिखितं तत्खरतरवचनवदनुवदनमध्य किञ्चित्करमेवेति बोध्यं, यत्तु क्वापि "बारसवाससएसुं विकमकाला जलहिअहिए । जिणवल्लह कोहाओ कुच्चयरगणाउ खरयरया ॥ १ ॥” इति वृद्ध संप्रदायागता गाथा पट्टावल्यादिषु लिखिता दृश्यते तत्तु युक्तमेव प्रतिभासते, यतोऽस्यां गाथायां पूर्वार्द्धन १२०४ वर्षे खरतरमतस्योत्पत्तिर
Jain Education International
For Personal and Private Use Only
खरतरचर्चा
॥३१३||
www.jainelibrary.org