________________
श्रीश्रवचनपरीक्षा ४ विश्रामे
1120011
|
औष्ट्रिको, यस्माञ्जिनशेखरो मूलं जातः, रुद्रपल्लीयसमुदायस्य मूलं जिनशेखरः, स च जिनवल्लभस्य संभोगी गुरुबन्धुः, अत | एव तदनुजानां पट्टावली त्वेवं चान्द्रकुले श्रीवर्द्धमान मूरिस्तत्पट्टे श्रीजिनेश्वरसूरिस्तत्पट्टे श्री अभयदेवसूरिस्तत्पट्टे श्रीजिनवल्लभसूरिस्तत्पट्टे श्रीजिन शेखरसूरिस्तत्पट्टे श्रीपद्म चन्द्रसूरिस्तत्पट्टे श्रीविजयचन्द्रमूरिस्तत्पठ्ठे श्रीअभयदेवमूरिरित्यादि, किंच-सं० | १४२२ वर्षे श्रीसंघतिलकस्कृितदर्शनसप्ततिकावृत्तिप्रशस्तौ जिनशेखरो महानुभावतया भणितः, यदुक्तं - " तच्छिष्यो जिन| शेखरो गणधरो जज्ञेऽतिविज्ञाग्रणी "रित्यादि, यस्तु खरतरेण पामरोष्ट्रवद् बहिर्निष्काशनयोग्यो दुरात्मेत्यादिना वर्णितः स एव तावत् तत्रेत्थं वर्णितः, तेन “जिणवल्लहसरिसो पुण पुणोऽवि जिणवल्लहो चेव"त्ति वर्णनेन न तुष्टिर्विधेया, अयथार्थवर्णनस्या किंचित्कर| त्वादिति प्राग्दर्शितमिति, एवं जिनवल्लभपट्टे जिनशेखरे विद्यमानेऽन्यस्य जिनदत्तादेः पट्टधरत्वकल्पनं कलङ्क एव, अत्रापि पइपरम्परा श्रीवर्द्धमानाचार्यत एव लिखिता, न पुनरुद्योतनम्ररेरपीति प्रसङ्गतो जिनदत्तापत्यस्य वितथलिखनमध्यसूचि, किंच| रुद्रपल्ली यैरपि खगच्छोत्पत्तिश्चन्द्रकुलादुक्ता, न पुनः खरतरगच्छात्, यदि श्रीजिनेश्वरसूरेः खरतरविरुदमभविष्यतर्हि तत एव | स्त्रीयोत्पत्तिरुक्ताऽभविष्यदित्यपि बोध्यमिति गाथार्थः || ६७|| अथ यदि खरतरमतोक्तं प्रायोऽसत्यमेव तर्हि तदीयप्रकरणादिषु | सर्वेषामेकवाक्यता कथं स्यादिति पराशङ्कामपाकर्तुमाह
जिणव सूरी खरयरमयमेराकरणसुत्तहारसमो । जह जिणसमए मेराकारो वयरो अ सुत्तेसु ||६७|| खरतर मत मेरा करणसूत्रधारसमः - खरतरमर्यादाकरणे सूत्रधारकल्पः जिनपतिसृरिरासीत्, दृष्टान्तमाह-यथा जिनसमये - जैनशासने सूत्रेषु सूत्रपाठरचनायां मर्यादाकारो वज्रस्वामी अपश्चिमश्रुतधरः, अयं भावः - विकल्पितमपि मतं बहुकालान्तरितं प्रायः
Jain Education International
For Personal and Private Use Only
|जिनवल्लभचर्चा
॥३०७॥
www.jainelibrary.org.