________________
श्रीप्रवनपरीक्षा ४ विश्रामे
॥ ३०६ ॥
Jain Education International
तदनूक्तयुक्तिप्रकारेण विचारणीया, यतस्तद्विचारणायां तन्मतस्वरूपं मुदृशां करतलामलकवद्भवतीतिगाथार्थः ॥ ६४॥ अथ खरतराभिमतस्य जिनवल्लभस्य स्वरूपमाह
स्वरयर मयस्स सीसो नासी आमी व सो अ गुरुबंधू । जिणसेहरनामेण न सम्मओ वंचिओ अहवा ।। ६५ ।।
खरतरमतस्य - खरतराणां मतः- अभिमतस्तैरङ्गीकृतस्तस्य जिनवल्लभस्येति गम्यं शिष्यो नासीत्-शिष्यतया प्रवर्त्तमानः कोऽपि नासीद्, आसीद्वा स गुरुबन्धुः - एकगुरुशिष्यो वैयावृश्यनिमित्तं श्रीजिनेश्वरसूरिणा नियोजितः शिष्यस्वरूपेण स्थितः, केन नाम्ना ? - जिनशेखर नाप्ना, सोऽपि न सम्मतोऽर्थाजिनवल्लभस्थापित विधिसंघस्य नाभिमतः, अनिष्ट इत्यर्थः, अथवा स वंचितः अर्थात् सोमचन्द्रेण यदि मां गुरुत्वेन प्रपद्यसे तर्हि त्वां गुरुमित्र पालयामीत्यादिना केनापि विधिना स वराको विप्रतारित इति संभावनेत्यर्थ इतिगाथार्थः || ६५ ॥ अथ प्रागुक्तसमर्थनाय हेतुमाह
अण्णह तप्पट्टधरो जिणदत्तो कहणु तंमि संतंमि ? । संभोगी गुरुबंधू जोग्गोऽजोग्गो व संभवइ ||६६|| अन्यथा तस्मिन् सति - विद्यमाने जिनशेखरे नु इति वितकें तत्पट्टधरो - जिनवल्लभपट्टधरो जिनदत्तः कथं स्याद् ?, यतः स जिनशेखरो योग्योऽयोग्यो वा गुरुबन्धुः संभोगीतिकृत्वा पट्टधरः संभवति, न पुनर्विसंभोगिको जिनदत्त इति गाथार्थः ।। ६६ ।। अथ खरतराभिमतजिनवल्लभसंताननिर्णयमाह -
स्वरयर मयजिणवल्लहसंताणं जह हविज्ज ता नृणं । रुहोलिओ अ जम्हा जाओ जिणसेहरो मूलं ॥ ६७॥ खरतरमतजिनवल्लभसंतानं - खरतराङ्गीकृत जिनवल्लभस्यापत्यप्रवृत्तिर्यदि भवेत् ता तर्हि नून निश्चितं रुद्रपल्लीयः, नान्य
For Personal and Private Use Only
जिनवल्लभ
चर्चा
॥ ३०६ ॥
www.jainelibrary.org.