________________
श्रीप्रवनपरीक्षा
४ विश्रामे
॥२९७॥
एंगारससयचउसट्ठीए जिणवल्लहेण भणिअमिणं । तस्सऽणुरूवविआरे सदसयं आलजालंब ॥ ५६ ॥
एकादशतचतुःपष्टथा १९६४ वर्षर्गतेः जिनवल्लभेनेदं प्रागुक्तमष्टसप्ततिगतं श्री अभयदेववरिसंबन्धि स्वरूपं भणितं, सं० ११६४ अष्टसप्ततिका निर्मापिता, तत्र च प्रागुक्तं भणितमित्यर्थः तस्य तदुक्तस्यानुरूपः - अनुकूलो यो विचारस्तत्र तदनुसारेण विचारे क्रियमाणे सार्द्धशतकं - गणधरसार्द्धशतकमुपलक्षणाच्च तद्वृत्तिरालजालमिव - मुधाजल्पन मित्र भवतीतिगाथार्थः ॥ ५६ ॥ अथ जिनवल्लभोक्तानुसारेण विचारमाह
सूरिंमि दिवं पत्ते तीसं वासाई जाव उसूरी । तेसु सिरिषद्माणो पहरो खरयरेणुत्तो ||२७|| सूरौ - श्री अभयदेवाचार्ये दिवं गते सति त्रिंशद्वर्षाणि यावच्चतुःसूरि- चतुर्णां सूरीणां समाहारश्चतुःसूरि, चत्वारोऽपि सूरयो वर्त्तन्त इत्यर्थः तेषु श्रीवर्द्धमानः पट्टधरः खरतरेणोक्तः, श्री अभयदेवसूरिपट्टधरः श्रीवर्द्धमानाचार्य इत्येवं गणधर सार्द्धशतकवृत्तौ खरतरेणापि भणित इत्यर्थः इतिगाधार्थः ॥ ५७॥ अथ जिनवल्लभः कीदृश इत्याह
जिणवल्लहो अ चेइअनिवासिनिस्साह वद्यमाणोऽवि । कहमंतरा पविट्टो पट्टधरतेण सूरिपए ? ॥५८॥ जिनवल्लभ चैत्यनिवासि निश्रया - श्रीजिनेश्वरसूरिनिश्रयैव वर्त्तमानोऽपि पट्टधरत्वेन सूरिपदे - श्रीअभयदेवसूरिपदे कथमन्तरा | प्रविष्टः १, अवकाशाभावेऽपि खरतरैः कथं बलात्प्रक्षिप्तः, चम्पित इत्यर्थः, यथा विवाह महोत्सवमनिच्छतोरपि वत्सावत्सयोरुद्वाहोत्सवो ब्राह्मणैर्विधीयते तथा श्रीअभयदेवसूरिजिनवल्लभयोस्तथा मिग्राय रहितयोरपि खरतरापत्यैः पट्टधरत्वव्यवहारः प्रवर्त्तित इतिगाथार्थः || ५८ || अथ खरतरस्य रीतिमाह
Jain Educationa International
For Personal and Private Use Only
खरतरपट्टावलीविचार:
॥२९७||
ww.jainelibrary.org