________________
श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२९६ ॥
Jain Educationa Int
प्रतीतो यथा श्रीमहावीरमङ्खलिपुत्रयोः, नहि मङ्खलिपुत्रः श्रीमहावीरेण प्रत्राश्रितो न वोपसंपन्नः, किंतु क्वचित्तथाविधप्रश्नोत्तरदानमात्रेण शिक्षितः, प्रव्रज्या च त्वच्छिष्योऽस्मीति मङ्खलिपुत्रवचोमात्राभ्युपगमेनैवैकपाक्षिकाभ्युपगमः, एवं श्री अभय| देवसूरिजिनवल्लभयोरपि कथंचिदसंभावितोऽपि संभवन्नप्यकिंचित्कर एव, तेन जिनवल्लभेनात्मनो भिन्नगणसंबन्धित्वमेव ज्ञा| पितं तद्युक्तमेव, आधुनिकास्तु पट्टधरन्यादिसंबन्धं पूत्कुर्वाणा देवतायत्ता इवावगन्तव्या इतिगाथार्थः ॥ ५३ ॥ अथ खरत|रनामोत्पत्तिमुपसंहरन्नाह -
तेगं जह नामदुगं जिणदत्ता अहकमेण संजायं । तह जिणदत्तकवाले तहअं तिलयं च विहिलिहिअं ॥५४॥ येन कारणेन खरतरव्यतिरिक्ताः जिनवल्लभं यावत्सर्वेऽपि जिनेश्वरात् खरतरविरुदं न वदन्ति तेन कारणेन यथा नामद्विकं चामु | ण्डिकौष्टिक लक्षणमभिधानद्वयं जिनदत्ताद्यथाक्रमेण -क्रमस्थानतिक्रमेण प्रथमं चामुण्डिकं पचाञ्चौष्ट्रिकमिति, तथा जिनदत्तक| पाले- जिनदत्तललाटे तृतीयमपि खरतरसंज्ञापि तिलकमित्र तिलकं विधिलिखितं विधात्रा लिपीकृतं. जिनदत्तादेव प्रागुक्तयुक्तया | जातं नान्यस्मादपीति केनापि पराकर्तुमशक्यम्, अत एव प्रतिक्रमणप्रान्ते जिनदत्तस्यैव कायोत्सर्गो विधीयते, तस्यैव तन्मताकर्षकत्वादिति लिङ्कमपि बोध्यमितिगाथार्थः || ५४|| अथ सिंहावलोकनन्यायेन प्रसङ्गागत विचारमाह
जिणवल्लहो अकत्थवि इअगाहारावरद्वभागंमि । नाहं तक्कुलजाओ तंपि अ एअं विआरिजं || १५ || 'विल्लाहो अकत्थवी 'ति प्रागुक्तगाथायामपरार्द्धभागे उत्तद्वे नाहं तत्कुलजात इति जिनवल्लभेन यद्भणितं तदप्येवं वक्ष्यमाणप्रकारेण विचार्य-सम्यग्धिया पर्यालोच्यमितिगाथार्थः ||५५|| अथ विचारणामाह
For Personal and Private Use Only
खरतर बिरुदचर्चा
॥२९६ ॥
www.jainelibrary.org