________________
श्रीप्रववनपरीक्षा ४ विश्रामे
॥२८३॥
ताः- मदनुरोधेनानयोः स्थितये दत्ताज्ञामित्युक्ते राजोपरोधेन चैत्यवासिभिराज्ञा दत्ता, स्थितौ च तौ तत्र वसतिवासेन, ततः कियत्कालानन्तरं पुनरपि धारानगर्यां प्राप्तौ तत्र महेभ्य महीधरधनदेव्योः सुतोऽभयकुमारनामा कुमारब्रह्मचारी समुत्पन्नवैराग्यः प्रब्राजितः, सोऽपि बहुश्रुतीभृतो वर्द्धमानमूरिवचसा श्रीजिनेश्वरसूरिणा सूरीकृतो वैराग्यनिधिः, तेन च शासनसूरीप्रेरितेन नवाङ्गवृत्तयो विहिताः, क्रियमाणासु च वृत्तिष्याचाम्लतपसा रात्रौ जागरणा लेखनादिप्रयासाच्च रक्तदोषः शरीरे समुत्पन्नः, तद् दृष्ट्रा च मत्सरिभिःअहो उत्सूत्रफलं, | यदस्य सूरेः शरीरे कुष्ठोत्पत्तिजतित्यपभ्राजनामाकलय्य खिन्नः सूरिः शासनसुरीं प्रत्युक्तवान्, तया च श्रीस्तम्भनपार्श्वजिनप्रतिमाप्रक|टनाद्युपायेन तदुपशान्त्युपायः प्रदर्शितः, सूरिश्व तत्तथैव कृत्वोपशान्तरक्तदोषः कियत्कालं प्रवचनं प्रभाव्य शुभध्यानपरायणोऽनशनेन स्वर्गमसाधयदित्ति श्रीअभयदेवसूरिचरित्रपिण्डार्थः, अत्र चरित्रे दुर्लभराजसभायां श्रीजिनेश्वरसूरेर्गमनमपि नाभूत्, तदभावात्कुतस्त्यः तत्र विवादो ?, विवादाभावाच्च खरतरबिरुदं वन्ध्यास्तनन्धयकल्पं संपन्नं, नचैवं संबन्धः श्रीप्रभाषकचरित्र एवोपलभ्यते, | नान्यत्रेति शङ्कनीयम्, अन्यत्रापि तथैवोपलभ्यमानत्वात्, तथाहि-बच्छा ! गच्छह अणहिल्लपट्टणे संपयं जओ तत्थ । सुविहिअजड़| पवेसं चेइअमुणिणो निवारिति ॥ | १ || सत्तीए बुद्धीए सुविहिअसाहूण तत्थ य पवेसो । कायवो तुम्ह समो अन्नो न हु अस्थि कोऽवि | विऊ ||२|| सीसे धरिऊण गुरुणमेयमाणं क्रमेण ते पत्ता । गुजरधरावयंसं अणहिल्लभिहाणयं नगरं ॥ ३ ॥ गीअत्थमुणिसमेया भमिश्र | पइमंदिरं वसहिहेऊ । सा तत्थ नेव पत्ता गुरुण तो समरिअं वयणं । ४ ॥ तत्थ य दुलहराओ राया राय सकलकलिओ । तत्थ (म्स) पुरोहिअसारो सोमेसरनामओ आसी ||५|| तस्स घरे संपन्ना (ते पत्ता) सोऽविद्दु तणयाण वेअअज्झयणं । कारेमाणो दिहो सिट्टो सूरिप्पहाणेहिं || ६ || सुणु वक्खाणं वेअस्स एरिसं सारणी परिसुद्धं । सोऽवि सुणंतो उत्फुल्ललोअण्णो विम्हिओ जाओ ॥ ७ ॥
Jain Education International
For Personal and Private Use Only
श्रीअभयदेवसूरि
प्रबन्धः
॥२८३॥
www.jainelibrary.org.