SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२७३ || | र्लभराजनृपोपरोधात्तद्वचसैव तेषां स्थित्यर्थमाज्ञां ददध्वमिति नृपाग्रहेण लिङ्गिनामाज्ञा जातेति प्रभावकचरित्रे श्री अभयदेवसूरिसंबन्धे दृश्यते, यदुक्तं - " उपरोधेन ततो यूयममीषां वसनं पुरे । अनुमन्यध्वमेवं च श्रुत्वा तत्र तदादधुः || १ || इत्यादि श्रीप्रभा| वकचरित्रे, अत्र कालानुभावात् समग्रव्यतिकरमन्तरेण प्रायः प्रसिद्धे विवादारूढे च विचारे सम्यक् प्रत्ययो न स्यात् ततो बहूपयो| गित्वात्प्रभावकचरित्रगतः श्री अभयदेवसूरि संबन्धो यथा - अनमः || श्रीजैनधर्म (तीर्थ०प्र०) धम्मिलोऽभयदेवप्रभुः श्रिये । भू| यात्सौमनसोद्भेदभास्वरः सर्वमौलिभूः || १ || आहत्याष्टाङ्गयोगं यः, स्वाङ्गमुद्धृत्य च प्रभुः । श्रुतस्य च नयाङ्गानां, प्रकाशी स | श्रिये द्विधा ||२|| वदन् बालो यथाऽव्यक्तं, मातापित्रोः प्रमोदकृत् । तद्वृत्तमिह वक्ष्यामि, गुरुहर्षते तथा ||३|| अस्ति श्रीमालवो | देशः, सद्वृत्तरसशालितः । जम्बूद्वीपाख्य माकन्दफलं सद्वर्णवृत्तः ||४|| तत्रास्ति नगरी धारा, मण्डलाग्रोदितस्थितिः । मूलं नृपश्रियो दुष्टविग्रहद्रोहशालिनी ||५|| श्री भोजराजस्तत्रासीद्भूपालः पालितावनिः । शेषस्येवापरे मूर्त्ती, विश्वोद्धाराय यद्भुजौ ॥ ६ ॥ तत्र लक्ष्मीपतिर्नाम व्यवहारी महाधनः । यस्य श्रिया श्रितः श्रीदः, कैलासाद्रिमशिश्रियत् ॥ ७॥ अन्यदा मध्यदेशीय कृष्ण ब्राह्मणनन्दनौ । प्रह्नप्रज्ञाबलाकान्त वेदविद्याविशारदौ ||८|| अधीतपूर्विणौ सर्वान्, विद्यास्थानांचतुर्दश । स्मृत्यैतिह्यपुराणानां, कुलकेतनतां गतौ ||९|| | श्रीधरः श्रीपतिश्चेति, नामानौ यौवनोद्यमात् । देशान्तरदिदृक्षायै, निर्गतौ तत्र चागतौ ||१०|| त्रिभिर्विशेषकं । तौ पवित्रयतः | स्मात्र, लक्ष्मीधरगृहाङ्गणम् । सोऽपि भिक्षां ददौ भक्त्या, तदाकृतिवशीकृतः। ११ । गेहाभिमुखभित्तौ च लिख्यते स्मास्य | लेख्यकम्। टङ्कविंशतिलक्षाणां नित्यं ददृशतुश्च तौ ॥ १२ ॥ सदा दर्शनतः प्रज्ञाबलादप्यतिसंकुलम् । तत्परिस्फुरितं सम्यक्, सदाऽभ्य| स्तमिवानयोः ॥ १३ ॥ जनो मत्पार्श्वतः सूपकारवत् सुपकारवान् । वर्त्तते निष्ठुरः किंतु मम किंचिन्न यच्छति ||१४|| ब्राह्मणा Jain Education International For Personal and Private Use Only श्रीअभयदेवसूरिवृत्तान्तं ॥२७३ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy