SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२७१ ॥ | दद्यात्, यत्पुनरशीतिविकल्पः - अशीत्यधिकदशशत १०८० वर्षे खरतरविरुदं जातमिति कल्पना तदपि शशकस्य श्रवणपुटमित्र, यथाहि - आखेटकपरिवेष्टितः शशकः स्वकर्णपुटेन निजचक्षुषी आवृत्य तिष्ठति तथाऽय मौष्ट्रिकोऽपि, अयं भावः- प्रागुक्तयुक्त्या संत्रा| सितः पलायनदिशमलभमानः कश्चिद्वाचालो वदति - अहो मया “दससयचउवीसेहिं नयरि"त्ति तत्र चतुर्विंशतिशब्देन चतस्रो विंशतयश्चतुर्विंशतय इतिव्युत्पन्या अशीतिरुच्यते इति विकल्प्य जल्पनमपि शशकस्य कर्णपुटमिव नालं भवति, यतस्तदीयजीर्ण| पहावलीषु १०२४ वर्षे श्रीमदणहिल्लपत्तने दुर्लभराजसमक्ष मित्यादि लिखितमस्ति, तथा, - 'श्रीपत्तने दुर्लभराजराज्ये, विजित्य वादे मठवासिसूरीन् । वर्षेऽन्धिपक्षाभ्रशशि १०२४ प्रमाणे, लेभेऽपि यैः खारतरो विरुद्ध ॥ १ ॥ इति सं० १५८२ वर्षे जिनहंससूरिराज्ये | खरतरकृतच्छन्दो निबद्धपट्टावल्यामितिगाथार्थः ॥ ४१ ॥ अथ तथा विकल्पितं कथं न त्राणमित्याह जंसो दसबावट्टीवारिसे उववेसिऊण रज्जमि । दससत्तसत्तरीए कालगओ दुल्लहो राया ॥४२॥ यद् - यस्मात् स दुर्लभराजः षट्षष्ट्यधिकदशशतवर्षे १०६६ राज्ये उपविश्य सप्तसप्तत्यधिकदशशत १०७७ वर्षे कालगतः-परलोकं प्राप्तः, कचित् सं० १०७८ वर्षे इत्यपि दृश्यते, तत्रायं वर्ष ११ मास ६ राज्यं कृतवानिति लिखितम्, अतस्तदपि युक्तमेव, यतः श्रीपत्तनराजपट्टावली त्वेवं श्रीवीरात् ४७० वर्षे श्रीविक्रमः संवत्सरः, विक्रमादित्यतः सं० ८०२ वर्षे वनराजेन पत्तनस्थापना कृता, तत्र तस्य राज्याभिषेकच ८०२ वर्षे, वनराजराज्यं वर्ष ६०, ततः ८६२ योगराजराज्यं, वर्ष ३५, ततः ८९७ क्षेमराजराज्यं, वर्ष २५, ततः ०२२ भूयडराज्यं, वर्ष १९, ततः ९५१ वैरसिंहराज्यं, वर्ष २५, ततः ९७६ वर्षे | रत्नादित्यराज्यं, वर्ष १५, ततः ९९१ सामन्त सिंहराज्यं, वर्ष ७, एते चापोत्कटा राजानः १९६ वर्षवध्ये बोध्याः, ततः ९९८ Jain Educationa International For Personal and Private Use Only जिनेश्वरा न खरा ॥२७१ ॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy