________________
AM
खरतरनाम
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२६९॥
Samarpan
तललाटः सबाप्पारुणलोचनः मां प्रतीत्थं लोको ब्रूते इति द्वेपामिभृतोऽसभ्यभाषणाय स्फुरदोष्टः सन् तामसवाग्-मां प्रति नोपलक्षध्वमित्यादिरूपेण भयोत्पादनपुरस्सरमाक्रोशदाता जातोऽभूत् , पश्चाल्लोकेन भणितम्-अहो खरतरा प्रकृतिरस्य, मौखयं । च जिनदत्तस्य स्वभावसिद्धं गणधरसाईशतकवृत्तावप्युपलभ्यते,कथमन्यथा मृदुभाषया पृष्टोऽपि कापलिका त्वदीयमुखचूरणार्थमित्यादि निष्ठुरभाषी भवेद्?,एतदर्थिना तु प्रागुक्तजिनदत्तचरित्रमेव विलोक्यम् , अद्यापि लोके यस्तामसप्रकृतिर्भवति तस्य | खरतरप्रकृतिरिति ख्यातिः स्वर्णगिर्यादौ प्रतीतैव, पश्चात्तेन चिन्तितं-खरतरप्रकृतिकं मां ज्ञात्वा कोऽप्यन्यो भीतो माऽपवदत्वित्यमर्षवशात्तेनाहं खरतरोऽस्मीति मां प्रति समीक्ष्य किंचिद्वक्तव्यं,नाहं सहिष्ये इति तेन जिनदत्तेन खरतरसंजेति प्रतिपन्नमिति खरतर इति तृतीयं नाम लोकदत्तं, तदपि जिनदत्तेनाभ्युपगतमित्युभयसम्मतं, परं खरतरनाम्नः प्रसिद्धिः कियत्कालानन्तरमेव बही जाता, अत एव गणधरसार्द्धशतकवृत्यादौ खरतरनाम्नो नाभिधानं, तथा श्रावणिकत्वेन सगोत्रः स्तनिकोऽपि शतपद्याम्-'औष्ट्रिका आचरणायाः प्रामाण्यं वदन्ति तत्रेदमभिधातव्य'मित्यादिवचनरुक्तवान् , न पुनः क्वापि खरतरा इति, तदानीमौष्ट्रिकनाम्न एव प्रसिद्धेरिति सार्द्धगाथार्थः।।३७-३८॥ अथोष्ट्रिकखरतरनाम्नोरुत्पत्तिः कस्मिन् संवत्सरे जातेत्याहएवं चउत्तरेहिं बारससयवरिसहिं १२०४ नामदुर्ग। चामुंडिअनामजुअं नामतिगं तेण जिणदत्ता ॥३०॥
"एवं' प्रागुक्तप्रकारेण चतुरुत्तरः-चतुरधिकैर्वादशशत १२०४ वर्षेः 'नामदुगम्'अभिधानद्विकं जातमित्यर्थः, तच्च नामद्विकं चामुण्डिकनामयुतं सन्नामत्रिक स्याद् , एतन्नामत्रिकं जिनदत्तादेव, नान्यस्माजिनवल्लभादेस्तथाविधनिमित्ताभावादेवेतिगाथार्थः |॥३९।। अथ "दससयचउवीसेहिं नयरि पट्टण अणहिलपुरि । हुअउ वाद सुविहित्थ चेइवासी स्यु बहुपरिं ॥१॥ दुल्लहनरवइसभासमख्य
NIDESIRIDHARPATRINA
॥२६९॥
For Pesonand Private Use Only
Fy