________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
॥२६८||
पूजनीया, विशेषतो मूलप्रतिमेत्येवमुपदेशेन स्त्रीभ्यो रुधिरपातप्रभवपातकस्य प्रायश्चित्तं ददाति एतद्वयतिकरमाकर्ण्य सङ्घन | चिन्तितम् - अहो प्रवचनोपघातको पदेशेनानेनैवंविधः प्रायश्चित्तविधिः कुतोऽभ्यस्तो ? यदेकस्यापराधे तजातिमात्रस्य जिनपूजाप्र| तिषेधरूपं प्रायश्चित्तं दीयते, एवं च सति धर्मानुष्ठानमात्रस्याप्युच्छेदापत्तिः, न हि किमपि धर्मानुष्ठानस्थानं तादृग् यदनादौ | संसारेऽनेकैरनेकशोऽननुकूलक्रियाभिर्न विराधितं, तस्माद्विराधितस्थाने तदाराधनाय प्रवृत्तो नोद्वेजयितव्यः, किंतु यत्स्थानं येन | विराधितं भवेत्स एव तत्स्थानकविराधनासमुत्थपातकघाताय पुनस्तत्रैव प्रवर्त्तयितव्यः, अत एव प्रतिमा पुस्तकविनाशे नवीन| कारापणे शुद्धिः प्रायश्चित्तदाने भणिता, न पुनस्तदाराधनविधेः पराङ्मुखीकर्त्तव्यः, तस्मात् प्रातरेष प्रष्टव्यो, यदि कदाग्रहं न त्यक्ष्यति तदाऽमै शिक्षा दास्यते, इत्येवंरूपेण या सङ्घोक्तिः तस्याः समुत्थं यद्भयं तस्मात् तन्निमित्तात् 'पलाणो' ति पलायितो,नष्ट इत्यर्थः कीदृशो नष्टः ? - उष्ट्रवाहनारूढः, पत्तनाजाबालपुरं प्राप्तः, उष्ट्रमारुह्य स्वर्णगिरिं प्राप्त इत्यर्थः, तत्रत्यजनकथने - कथं | केन विधिना शीघ्रमेव भवानिहागत इति लोकोक्तौ सत्यां द्रव्यलिङ्गिभ्यः संभावितोपद्रवः औष्ट्रिकीं विद्यां स्मृत्वाऽत्रागत इति | प्रत्युत्तरं दत्तवान् तदानीं पानीयपात्राभावेन घटाचरणाऽपि तन्मते प्रसङ्गतो बोध्या, ततो लोकेनौष्ट्रिकी विद्यावानय मौष्ट्रिक इत्युक्तोऽतो द्वितीय मौष्ट्रिकनामेति सार्द्धगाथाद्वयार्थः ।। ३५ ।। ३६ ।। अथ सार्द्धगाथया वृद्धवयोऽनुसारेण युक्त्या खरतर - नाम्न उत्पत्तिमाह- तदनन्तरोक्त मौष्ट्रिक इतिनाम तन्नाम तस्य नाम्नः श्रवणं-लोकमुखादाकर्णनं तेन हेतुभूतेन रुष्टो - रोषं गतः लोकैः सह "मिसमिसेमाणो त्ति क्रोधज्वलनेन देदीप्यमानस्तामसवचनो जातः सन् लोकेन भणितः - अहोऽस्य खरतरा प्रकतिरिति पश्चात्तेन जिनदत्तेनामर्षवशेन खरतरसंज्ञेति प्रतिपन्नम् अयं भावः - औष्ट्रिक इत्युक्ते लोकं प्रति सरोषं त्रिवलीसमलङ्क
Jain Education International
For Personal and Private Use Only
खरतर
नामत्रिकं
||२६८||
www.jainelibrary.org.