________________
श्रीप्रवचनपरीक्षा ४ विश्रामे ॥२६७||
'अथे 'ति मूलोत्सूत्रप्रथमाचार्ययोर्वक्तव्यतानन्तरं चामुण्डिकचौष्ट्रिकश्च खरतरचेति नामानि ' त्रीणि' त्रिसंख्याकानि जिनदत्ताद् यथा जातानि अमुकवर्षे मुकहेतुना जातानि तथैव, नान्यथा, चकारः पादपूरणे, शृणुत भो लोकाः !, तन्नामोत्पत्तिजिज्ञासया श्रवणगो- | चरीकुरुताहं दर्शयामीतिगाथार्थः ||३३|| अथ प्रथमं चामुण्डिकनाम्न उत्पत्तिमाह
तेणेविगुत्तरेहिं बारससयवरिसएहिं चामुंडा । आराहिआ य तेणं चामुंडिअसन्निओ जाओ ||३४||
तेनैव - जिनदत्तेनैवको तराधिकद्वादशशतवर्षे १२०१ निजमतवृद्धये 'चामुण्डा' चण्डिका पराभिधाना मिथ्यादृग्देवता विशेष आरा| धिता तेन हेतुभूतेन चामुण्डिक इति संज्ञा - नाम जाताऽस्येति चामुण्डिकसंज्ञितो जातः - उत्पन्नः, तथाविधख्यातिमानित्यर्थः, | अयं भावः - चित्रकूटे यस्या मठे जिनवल्लभो वर्षारात्रं स्थित आसीत्, तत्रैव स्थित्वा जिनदत्तेन सा आराधिता निजमतवृद्धये, यथा आञ्चलिकमताकर्षकेण नरसिंहोपाध्यायेन चम्पकदुर्गे मिथ्याहम् कालिका देवी निजमतवृद्धये आराधिता तथाऽयं चामुण्डिकाराध| नाचामुण्डिक इति सान्वर्थं नाम जिनदत्तादेव प्रवृत्तमितिगाथार्थः ||३४|| अथ सार्द्धगाथाद्वयेनोष्टिकनाम्न उत्पत्तिमाह
Jain Educationa International
अह अण्णया कयाई रुहिरं दट्टण जिणहरे रुट्ठो । इत्थीणं पच्छित्तं देइ जिणपूअपडिसेहं ॥ ३५ ॥ संघुत्तिभयपलाणी पट्टणओ उवाहणारूढो । पत्तो जावालपुरं जणकहणे भणइ विज्जाए ||३६| लोएणं सो भणिओ नामेणं उहिउत्ति बिअनामं । तन्नामसवणरुसिओ लोएहि मिसिमिसेमाणो ||३७|| जाओ तामसवयणो भणिओ लोएण खरयरा पयडी । तेणामरिसवसेणं खरयरसन्नत्तिपडिवण्णं ||३८|| 'अथे'ति प्राग्वत् अन्यदा- एकदा प्रस्तावे जिनदत्तेन जिनभवने रुधिरं पतितं दृष्ट्वा रुष्टः सन् अद्यप्रभृति स्त्रीभिर्जिनप्रतिमा न
For Personal and Private Use Only
खरतरनामत्रिकं
॥२६७ ।
Www.jainelibrary.org.