SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४ विश्रामे ८२६६॥ | देशेन त्रोटको भविष्यतीति प्राक् प्रदर्शितमिति 'भवितव्यतानुचेष्टा' भवितव्यतानुसारेण चेष्टा भवितव्यतानुचेष्टा लिंग-प्रागुक्तफलसूचकम् अतिमुक्तकोदाहरणाद्, यथाऽतिमुक्तकेन श्रीमहावीरशिष्येणास्माकीना नौस्तरतीति वदता जले निजपात्रं प्रवाहितं, तया तद्भवमोक्षगमने लिङ्गं सूचितमितिगाथार्थः ॥ ३० ॥ अथातिदेशोपसंहारमाह इच्चेअं जिणवल्लह जिणदत्ताणं चरित्तमिह वच्चं । गणहरसड्ढसउत्तं वण्णयवज्जंति तं भणिअं ||३१॥ इत्येवं प्रागुक्तप्रकारेण जिनवल्लभजिनदत्तयोः स्वरूपं - चरित्रं गणधरसार्द्धशतकोक्तं, वर्णनं त्वयथार्थमपि भवतीतिकृत्वा वर्ण| कवर्जमिह प्रकरणे वाच्यं वक्तव्यं भवतीति तद्भणितमितिगाथार्थः ||३१|| इतिगाथादशकेन खरतरपट्टधरपरम्परोपहास्यहेतुरिति दर्शितं ॥ अथ खरतरमताकर्षको जिनदत्ताचार्यः कथमित्याह जिणदत्ता उवण समुदाओ अज्ज जाव अच्छिन्नो । संजाओ तं पढमो आयरिओ नामजिणदत्तो ||३२|| जिनवल्लभाद्विधिसङ्घःः प्रवृत्तोऽपि साध्वीनाम्ना विकलस्त्रिविध एवासीत्, जिनदत्तात्तु चतुर्वर्णः कियत्कालानन्तरं साध्वी| वेपार्पणेन साध्वीसंयुक्तो जातः - संपन्नः समवायो जिनवल्लभस्थापितो विधिसङ्घनाम्नेति, एवंविधः सन्नद्य यावदच्छिन्नो वर्त्तते, तेन कारणेन चतुर्वर्णात्मीभूतस्य विधिसंघस्य प्रथमः- आद्य आचार्यो नाम्ना जिनदत्तो नामजिनदत्तः, खरतरमताकर्षको जिनदत्ताचार्य | इति मूलाचार्यः प्रदर्शित इतिगाथार्थः ॥ ३२ ॥ इत्युद्दिष्टयोर्मूलोत्सूत्रप्रथमाचार्ययोर्वक्तव्यता प्रदर्शिता, अथ खरतरमते नाम्ना|मुत्पत्तिं दर्शयन्नाह - अह चामुंडिअ अट्टिग्वरयरनामाई तिणि जिणदत्ता । जह जायाई तहेव य समासओ मुणह दंसेमि ॥ ३३ ॥ Jain Educationa International For Personal and Private Use Only खरतरनामत्रिकं ॥२६६॥ www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy