SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२५॥ जिनवल्लभवृत्तादि चचा | स्यात् न वा ?, सोऽपि तं संविनसमुदायमिति, अयोग्यश्चेदलं रहः कर्णजापेन, नापि चतुर्थः, नहि जिनवल्लभेन कस्याप्याचार्य| पदं दत्त, नाप्यमुकस्य देयमित्यनुज्ञातमपि, किंतु स्वयमेव स्तनिकमताकर्षकनरसिंहोपाध्यायवत् केनाप्यन्तर्वृपया तुष्टिविधिना देव| भद्रसकाशादाचार्याभूय विंशतिदिनाधिक मामत्रयं जीवितवान् , अतस्तस्याचार्यपदं काशकुसुममिव निष्फलमेव संजजे, इत्यादिविचारणया जिनवल्लभस्याचार्यपदं न श्रीअभयदेवमूरिवचसा, न वा तथाभूतः कस्यापि पट्टधरः, किंतु चन्द्रप्रभाचार्यादिवन्मताक पकः, किंच-कर्णजापकल्पनास्थाने श्रीअभयदेवमूरिभिश्चित्रकूटीयसंघस्य ज्ञापितं यदेष मया तथाविधयोग्यताया अभावादनङ्गीकृतः तत्र समागतः षष्ठं कल्याणकं व्यवस्थापयन् तिरस्करणीय इत्येव विचारणा ज्यायसी चतुरचेतश्चमत्करोति,लिङ्गाल्लिङ्गिनो ज्ञानमि|ति वचनात् ,तत्सद्भावे लिङ्गस्यापि सद्भावात् , कथमन्यथा चण्डिकामठे स्थितोऽपि सङ्घबाह्यः कृतः, खरतरकल्पना तु कर्णजापविषयिणी कोशपानप्रत्यायनीया स्वगृह एव प्रणिगद्यमानापि न हया, किंच-श्रीअभयदेवमूरिपाश्चित्रकूटे गतस्तत आरभ्य न मूरेमिलितो नवा तदाज्ञा मागिता न वा संदेशकमपि प्रेषितवानित्यपि लिङ्गं स्फुटमेव, तस्मात्कर्णजापजल्पाको देवभद्रो लोभेन मृषाभापी न संविग्न इति देवभद्रश्चश्चितः २ । अथ जिनवल्लभस्थापितः समुदायश्चर्यते, तथाहि-स समुदायः किं धर्मानुरक्तः उत स्वमतानुरक्तः, आद्यश्चेत्स एव तावदित्थं प्रष्टव्यः-ननु भो जिनवल्लभे परलोकं गते तीर्थमाचार्यकं निराचार्यकं वा ?,साचा| यकं चेत्तर्हि पञ्चकल्याणवाद्याचार्यनिश्रितं तीर्थ तव्यतिरिक्तं चातीर्थ स्वत एव सिद्ध,पर्यालोच्य तीर्थमेवाद्रियतामलमतीर्थ क्रीताचार्यनिश्रया प्रवर्तनेन ?, निराचार्यकं चेति द्वितीयः पक्षश्चेत्तर्हि किं जिनवल्लभस्य जिनदत्तस्य चाचार्यपददायकदेवभद्राचार्यस्य । मुधा प्रशंसनादिक्तेशेन ?, किंच-देवभद्रस्य पञ्चकल्याणकवादिनः सकाशादाचार्यपदोपादानमपि न युक्तं, पट्कल्याणकवादिमतेन IMRAPahmAIIANRAILBUMHRIRA ॥२५३॥ Iain Education Interno For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy