________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२५२॥
वगतो यन्नायं सामान्यपुरुषः, किंतु महापुरुषः,स्वयमेव चैत्यवासिसमवायमेव खायत्तीकृत्य प्रवचनप्रभावको भविष्यतीति चेत् तर्हि || जिनवल्लस्वयमेव तस्याचार्यपदं दवा कथं न विसर्जितः ?, तत्र संघसम्मतेरप्रयोजकत्वात ,किंच-संघासम्मतौ चैत्यवासिशिष्यत्वमेवोद्धा
भाचार्यत्व
चर्चा | वितं तत्तु खरतरस्य वक्तुमपि न युक्तं, यतश्चैत्यवासिन एव श्रीवर्द्धमानमूरेः श्रीउद्योतनम्ररिपट्टधरत्वं तैरेव भण्यते,अथान्यत्किश्चि-||
कारणमितिविकल्पश्चेत्तर्हि तद्वाच्यमवाच्यं वा ?, वाच्यं चेदुच्यतां, वक्तुं न शक्यते इति चेत्तर्हि अवाच्यस्य मस्तके किं शृङ्गं निग-| च्छति ? यदवाच्याद्वाच्यं भिन्नमिति भणित्वाऽपि वक्तुं न शक्यते इति भण्यते, तस्मादवाच्यमेव वक्तव्यं, तच्च कारणं तदेव संभाव्यं येन श्रीअभयदेवसरिभिः शिष्यत्वेनापि प्रतिपत्तुं न शकितः, कथं पट्टधरत्वेनेति, किंच-पट्टधरोऽपि स एवोच्यते यस्तदीयसमुदायाधिपतिः स्यात् , नहि भिन्नसमुदायाधिपतीभ्य प्रवर्त्तमानस्तत्पट्टधरः संभवति, लोकेऽपि नृपादिपु तथैव दर्शनात् , किंचसमुदायप्रतिबन्धाभावेऽन्यतोऽपि कुतश्चिदाचार्यपदमादाय यथा श्रीअभयदेवमूरिपद्धरत्वमात्मनः ख्यापयति तथा गौतमादीनामेव किमिति न पूत्कुरुते ?, समुदायप्रतिवन्धाभावस्योभयत्रापि तौल्यात , किंच-नियतयोग्यतां संविदता मूरिणा यथा प्रसन्नच. न्द्र एकान्ते भणितः तथा निजपदस्थापितः श्रीवर्द्धमानाचार्य एव भणितुं युक्तः, यतोऽसंभाव्यमपि स्थूलधीभिः संभाव्यते तत्पदाधिकारित्वाद् ,यो यत्पदाधिकारी सोऽन्यमपि तत्पदाधिकारिणं कर्तुसमर्थो भवति, न पुनः प्रसन्नचन्द्रः,मरिपदानधिकारित्वाद् , एवं च सति देवभद्रो दूरतर एव, यतः 'स्वयं दरिद्रो न परमीश्वरीकर्तुमीश्वर' इति सूरिपट्टधरत्वमधिकृत्य श्रीवर्द्धमानाचार्यव्यतिरिक्तानां सर्वेषामपि तद्राहित्येन दारिद्यात् , किंच-आस्तां प्रसन्नचन्द्रोऽपि, परं सर्वजनसमक्षमेव कथं न भणितः ?, रहसि | भणने प्रयोजनाभावाद् , यदि जिनवल्लभो योग्यस्तर्हि संविग्नसमुदायो न तं पराभवति, विशेषतः सूरिवचनात् , अनुकूल एव || ||२५२॥
For Personal and Private Use Only