________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
॥२५१॥
यस्तु खरतरेण संगतिघटनाथ कर्णजापः कल्पितः, स च रब्वया कर्णसंधानकल्पोऽकिञ्चित्कर एव, न विद्वत्पर्षद्यव्यक्तशब्देनापि वक्तव्यः, तत्र युक्तिर्यथा - श्री अभयदेवसूरिणा एकान्ते प्रसन्नचन्द्रो भणितस्तेन च देवभद्राचार्य इत्यादि तत्सर्वं कोशपानप्रत्यायनीयम् एतद्विषयेऽपरस्य साक्षिकस्याभावादिव्यकरणेनैव प्रत्ययः समुत्पादनीयः अथ किंचित्साक्षिकाभावेऽपि विश्वसनीयं भवेद् यदि युक्तिसंगतं स्यात्, तच्च युक्त्या विचार्यमाणमालजालकल्पं, विचारणा त्वेवं यदि चैत्यवासिशिष्यत्वेन हेतुना सूरिभिः स्वहस्तेन स्थापितो गच्छसम्मतो न स्यात्तर्हि तथात्वे सत्येव तद्वचनेन प्रसन्नचन्द्रस्थापितो गच्छसम्मतः कथं स्यात्, किंच परम्परया श्री अभयदेवसूरिवचनोद्भावनमकिञ्चित्करमेव, यतो यथा जिनवल्लभसूरिपट्टधरः कृतः तथा सूरिवचनमन्तरेणापि सूरिपट्टधरः क्रियतां, देवभद्रस्योभयत्रापि सामर्थ्यात् किंच- जिनवल्लभस्याचार्यपदमन्तरेण किं न्यूनं को गणाधारः कोऽप्यात्मीयो | नासीदुताचार्यपदमन्तरेण तस्य चारित्रगुणा हीयन्ते अथवा योग्यतैव काचित्तस्य तादृशी येनावश्यमस्याचार्यपदं कर्त्तव्यमेव उतास्मादेवाग्रतोऽप्याचार्य पदप्रवृत्तिर्येनासत्यपि समवाये रहस्याचार्यपदस्थापनायै सूरिभिराज्ञा दत्ता ?, नाद्यः, गणाधारस्य वर्द्धमानाचार्यस्य स्वहस्तेनैव कृतत्वात्, न द्वितीयः, आचार्यपदमन्तरेणापि बिशिष्टचारित्रगुणानामुपलब्धेः प्रतीतत्वात् न तृतीयः, सूरिभिरेव तत्पदस्थापनायाः कर्तव्यताऽऽपत्तेः, एकस्मिन्नपि योग्यानामनेकेषामपि सूरिपद संभवात् कथमन्यथा श्रीजिनेश्वरसूरिणैव जिन चन्द्राभयदेवावाचार्यपदे निवेशितौ ?, अथैवमपि सङ्घसम्मत्या वर्त्तुं न शक्यत इतिचेत्तत्र संघसम्मत्यभावे निदानं किं चैत्यवासिशिष्यत्वमन्यद्वा ?, आद्ये दिग्बन्धादिना तदपाकरणस्य सुकरत्वाद्, एवमप्यसम्मतौ कथं प्रसन्नचन्द्र स्थापितः सम्मतो भवि व्यतीति सूरेर्विचारणा किं नासीत् १, मत्पट्टेऽयं स्थापनीय इत्येकान्ते भणितम्, अथ विचारणा आसीदेव, परमेतादृश एवायम
Jain Education International
For Personal and Private Use Only
जिनवलभाचार्यत्वचर्चा
॥२५१॥
www.jainelibrary.org