________________
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४९॥
जिनदत्तवृत्तचर्चा
वैपरीत्यभावसूचकं चेत्यादिपर्यालोच्यमाने प्रथमपक्षो न दक्षः,क्षोदाक्षमच्चात ,तथाहि-तत्र तावद्भविष्यद्युगप्रधानभावसूचकं किमुद्गतक्षेत्रत्रोटनं कल्प्यते उत रजोहरणाद्युद्दालनेऽपि युक्तं कृतमिति भाषणमथवा चोटिकामार्गणपुरस्सरं परावृत्य स्वगृहगमनं चेत्यादि, यत्किंचिदेतत् , नहि निशान्ते स्पष्टदृष्टोऽपि काकस्वामः आत्मनः करिशतपरिकल्पिता राज्यपदवीं सूचयति,तस्माद् द्वितीयविकल्प एव ज्यायान् , तस्यैव विचारक्षमत्वात् ,तथाहि-उद्गतक्षेत्रत्रोटनेन धर्माकरितस्य सङ्घक्षेत्रस्य देशेन धर्मनाशको भविष्यामीमि स्तूचितं, रजोहरणायुद्दालनेऽपि युक्तं कृतमिति भणनेन मदीया दीक्षा ममान्येषां च न श्रेयस्करी भविष्यतीति सूचितम् , आक्रोशेऽपि निर्भयतया प्रतिवचोदानेन तीर्थनिर्भत्सितोऽपि निर्भयतया प्रतिजल्पाको भविष्यामीति तेन मूचितं, चोटिकामार्गणपुरस्सरं गृह|गमनभणनेन गृहवास एवं मम श्रेयानित्यमूचि,एवं प्रामाणिके विचारे कर्तव्याहेऽपि यत्तदीयैरुपाध्यायादिभिः एष इत्यादि विचारित तदवश्यं तथाविधभवितव्यतायोगादेव बोध्यं, तथा केनचिदहो सितपटाः! कपालिकाग्रहणं किमर्थमिति मृदुवचसोदीरितोऽपि त्वदीयमुखचूरणीमात्मनो मुखमण्डनार्थ चेत्यादि निष्टुरभाषणेन पञ्जिकाध्ययनमात्रेणापि कश्चित्पाषाणः कश्चिन्नेत्यधुनैव ज्ञास्यते | इत्यादि सगर्वभाषणेन चात्मनो मौखर्यमेव ज्ञापितवान् , न पुनः कश्चित्सत्पुरुषस्वभावम् , अत एव खरतर इति नाम्नोऽपि हेतुजिनदत्तमौखयमेवेत्यग्रे वक्ष्यते, तथा सम्मतेन सोमचन्द्रस्य लेखः प्रेषित इत्युक्त्वा सामान्येन जिनवल्लभपट्टे कश्चिदुपवेक्ष्यति, परं कोऽपि न जानाति अमुक इति कथं संगतिः ?, किंच-तदानीं सोमचन्द्रो व्यक्तोऽव्यक्तो वा ?, व्यक्तश्चेत्कथं स्वकीयं गणं गणाचार्य प्रव्राजनाचार्य स्वकीयसंघाटकादिकं वाऽनापृच्छयाविमृश्य च सहसा सर्वमपि प्रतिबन्धं परित्यज्य स्वयं श्रीवीरस्य पञ्चकल्याणकवादी चन्द्रगच्छीयः सन् अतकित एव देवभद्रसकाशादाचार्याभूय परलोकगतस्यापि पटकल्याणकवादिनः कूर्चपुरीय-||
||२४९॥
in Education tembon
For Personal and Private Use Only
www.jainelibrary.org