SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४७॥ | पश्चात् सर्वसम्मतेन सोमचन्द्रस्य लेखः प्रदत्तः पच्चित्रकूटे शीघ्रं समागन्तव्यं येन श्रीजिनवल्लभसूरिपदस्थापनं भविष्यति, न ज्ञा| यते कश्चिदुपवेक्ष्यति, श्रीजिनवल्लभसृरिपदप्रतिष्ठायामनागतोऽभूस्त्वं, बहवश्च तत्पदे स्थातुं लम्बकर्णा गौरवर्णाः श्रीपर्णपर्णाक्षाः |साक्षादिव मकरध्वजाः गूजरत्रासंजाताः संयता अभ्युद्यता आसन् , परं योग्यतां गुरव एव विदन्ति, किंबहुना ?, देवभद्राचार्याः पण्डितसोमचन्द्रोऽन्येऽपि साधवश्चित्रकूटे समाजग्मुः, सर्वोऽपि लोको वेत्ति सामान्येन श्रीजिनवल्लभसरिपदस्थापन भविष्यति, न ज्ञायते कश्चिदुपवेक्ष्यति, श्रीजिनवल्लभसरिप्रतिष्ठिते साधारणसाधुकारिते श्रीमहावीरेचैत्ये पदस्थापनं भविष्यति, ततः स्वप|रिभावितलग्नदिनादादिने श्रीदेवभद्राचार्यरेकान्ते भणितः पण्डितः सोमचंद्रगणिः-यदुतास्मिन् दिने युष्मदीयं पदस्थापनालग्नं |भावितमस्ति, पंडितसोमचन्द्रेणोक्तं-ययुष्माकं सम्मतं तद्युक्तं, परं यद्यस्मिन् लग्ने स्थापयिष्यते तदा न चिराय जीवितं भविष्यति, पण्णां दिनानामुपरि शनैश्चरवारे यल्लग्नं भविष्यति तत्रोपविष्टानामस्माकं चतुर्दिक्षु विहरतां चतुर्विधः श्रीश्रमणसङ्घः श्रीजिनवल्लभसृरिवचनेन प्रभूतो भविष्यति, चिरंजीवित्वं च, देवभद्राचार्यरुक्तं-तदेव वयमपि गवेषयामः, तदपि लग्नं न दरे, तत्रैव | भवतु, ततस्तस्मिन् दिने श्रीजिनवल्लभसूरिपदे विस्तरेण संध्यासमये लग्नवेलायां संस्थापिताः श्रीजिनदत्तनामानो युगप्रवराः, ततो वादित्रे वाद्यमाने समानीता वसतो, प्रतिक्रमणानन्तरं वन्दनकं दत्त्वा श्रीदेवभद्रसूरिभिर्भणित-देशनां कुरुत, ततः सिद्धान्तोक्तोदा हरणानुसारिमनोहारिसुधासारणीगीर्वाणवाणीप्रबन्धेन तथा कृता पूज्यैः श्रीजिनदत्तसूरिभिर्देशना यथा हुस्वशरीरः श्यामवर्णोऽयं किमित्युपवेश्यते ? किं न संत्यन्ये गौरववर्णा लम्बकर्णाः विशाललोचना गच्छमध्ये साधव इत्यादिकालुष्यमपहाय सर्वा प्रजा रञ्जिता भणति-अहो सिंहानां पदे सिंह एवोपविष्टो विराजते, धन्याः श्रीदेवभद्राचार्याः यैरीदृशं पात्ररत्नं परीक्षितं, किमस्मादृशाः ॥२४७|| Jan Education Interno For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy