SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ जिनदत्त श्रीप्रवचनपरीक्षा ४विश्रामे ॥२४५॥ प्रतिपन्न, ततश्चतुर्मास्यनन्तरं धर्मदेवोपाध्यायानां स्वरूपं दत्तं यदस्माभिरत्र पात्रमेकं प्राप्तमस्ति यथा युष्माकं प्रतिभास्यति, ततः शीघ्रं समागताः धर्मदेवोपाध्यायाः पृष्टश्च सः, ज्ञातं च-निश्चितं न सामान्यपुरुष एषः, किं तर्हि ?, गुरुपदयोग्यो भविष्यति, ततस्तन्माता पृष्टा-तव सम्मतं यद्येप दीक्ष्यते ?, तयोक्तं पुण्यमान्या-भगवन् ! प्रसादं कृत्वा कुरुतैवं येन ममापि निस्तारो भवति, पुनः पृष्टोपाध्यायः-कियद्वर्षप्रमाणोऽयं ?, तयोक्तम्-एकादशशतद्वात्रिंशत्संवत्सरे ११३२ जात इति, तत एकादशशते एकच| त्वारिंशत्संवत्सरे शुभलग्ने तस्योपाध्यायैर्दीक्षा प्रदत्ता, नाम च कृतं सोमचन्द्र इति, भणित उपाध्यायैः सर्वदेवगणिः-अथ कियद्वर्षाण्येष परिपाल्यः, सर्व यहि मिनयनादिकं कार्य, क्रियाकलापं च शिक्षणीयः, तथा सूत्रपाठस्तेन स्वगृहे कृतो नास्ति अतः 'करेमि भंते ! सामाइ'मित्यादि पाठ्यते, प्रथमवतदिने चासौ सोमचन्द्रमुनिीतोऽस्ति बहिर्भूमौ सर्वदेवगणिना, अज्ञानत्वादुद्गतानि क्षेत्राणि त्रोटितानि तेन, ततः शिक्षानिमित्तं रजोहरणं मुखवत्रिका च गृहीता सर्वदेवगणिना, भणितश्च-व्रते गृहीते किं क्षेत्राणि त्रोट्यन्ते ?, तद्गच्छ स्वगृहं, ततस्तदैवोत्पन्नप्रतिभेन तेनोक्त-युक्तं कृतं गणिना, परं मम चोटिका आसीत् तां दापय | येन गच्छामि इत्युक्ते गणेराश्चर्यमभृद्-अहो लघोरपि कीदृक् सदुत्तरत्वमेतस्य ?, कीदृशं प्रतिवचनं प्रदीयते ?, एषा चर्चा धर्मदेवोपाध्यायस्याग्रे जाता, धर्मदेवोपाध्यायश्चिन्तितं-भविष्यति योग्य एषः, सर्वत्र पत्तने परिभ्रमन् लक्षणपञ्जिकादिशास्त्राणि भणितुमारब्धः सोमचन्द्रः, एवं च भावदेवाचार्यधर्मशालायां पञ्जिकागणनार्थमेकदा गच्छन्नुद्धतेन केनापि प्रतिपादितो यथा अहो सितपटाः ! कपालिकाग्रहणं किमर्थं ?,सोमचन्द्रेणोक्तं-त्वदीयमुखचूरणार्थमात्ममुखमण्डनाथं च,गतोऽसौ निरुत्तरो, न किमपि वक्तुं शक्तः, भणनस्थाने गतः, तत्रानेकाधिकारिपुत्राः पञ्जिका भणन्ति, कदाचित्तेनाचार्यण परीक्षार्थ पृष्टोऽसौ सोमचन्द्र-न विद्यते MORADITIHARI P LAINITARI NIRAHESHP mamta MEERUIN A NEIDEOMARATRAMMERISPRINITIAURAHARI MURREARRIA HIERamanimals m attes ATHAmar ॥२४५॥ For Person Prive Only
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy