________________
श्रीप्रवचनपरीक्षा
४ विश्रामे
॥२४१॥
हितनेपथ्यः साधुवेपधारी, साध्याभास इत्यर्थः, किंच- अनन्तानुबन्धिकषायोदयमन्तरेणोत्सूत्रमार्गप्रवर्तकत्वासंभवात्, अनन्तानुबंधिकषायिणो हि नियमान्मिथ्यादृष्टय एव, ते च सुविहितमत्सरिण एव स्युः, यद्यपि कदाचित् वाङ्मात्रेण सुविहितानुकूल्यं ज्ञाप| यन्ति तथापि ते विषकुम्भामृतपिधानकुम्भकल्पा बोध्याः, यथा साम्प्रतमपि केचन कुपाक्षिकाः वयं तपागणसाधूनां महानुभावत्व| मेच श्रमह इति प्रत्यक्षा दृश्यन्ते, तेन तथाभूतेन सुविहितभ्रान्तिजनकेन जिनवल्लभेन 'वचनरचनया' निजवचनचातुर्या कालानुभावात् 'केहवि' अपिरेवार्थे केचिदेव, न पुनः सर्वेऽपि श्राद्धाः उपलक्षणात्काचित् श्राविका अपि 'वशीकृताः' स्वायत्तीकृताः, तत्रत्यसश्चैकदेशः स्वायत्तीकृत इत्यर्थ इतिगाथायुग्मार्थः | ३ | ४ | अथ जिनवल्लभेन किं प्ररूपितमित्याह
सिं पुरओ पढमं छह कलाणगंपि उबइङ्कं । निअचिंतिअकज्जट्टा वारिजंतेण तेणेव ||५||
ये श्रावकाः स्ववशीकृतास्तेषां पुरस्तात्प्रथमम् आदौ पष्ठं कल्याणकमेव प्ररूपितं, विपरीतबोधनिदानं तूत्सूत्रवचनावसरे वक्ष्यामः, | किमर्थं षष्ठ कल्याणकं प्ररूपितं ? - 'निअ ' इत्यादि, निजचिन्तितकार्यार्थ, मयाऽवश्यं षष्ठं कल्याणकं व्यवस्थापनीयमित्येवंरूपेण चिन्तितं यत्कार्य तदर्थ, केन ? - 'तेनैव' जिनवल्लभेनैव, पष्ठकल्याणकप्ररूपणामूलं जिनवल्लभ एव, नान्यः कोऽपीत्यर्थः, किं क्रिय| माणेन ? - निवार्यमाणेन अर्थात्तीर्थेन, अयं भावः प्रवचनोपघात्यनुचितं प्ररूपयन्तं बलवन्तमपि पुरुषं तीर्थदाज्ञावर्त्ती सङ्घो | निवारयत्येवेतिकृत्वा भो जिनवल्लभ मा इत्थं प्ररूपयेत्याक्रोशवचनैस्तीर्थनिवारितोऽपि अभिनिवेशात्पष्ठं कल्याणकं तीर्थमवगणय्यैव व्यवस्थापितवान्, अन्यथा सङ्घन बहिष्कृतेरसंभवात् न ह्यपराधी तदीयापराधमनुद्भाव्यैव केनापि बहिष्क्रियते इति लोकेऽपि प्रतीतत्वात्, बहिष्कृतत्वं च जिनवल्लभस्य खरतरेणैव भणितं, तथाहि - "संघत्राकृतचैत्य कूटपतितस्यान्तस्तरां ताम्यतस्तन्मुद्रादृढ
Jain Education International
For Personal and Private Use Only
जिनवल्लभप्ररूपणा
॥२४१ ॥
www.jainelibrary.org.