________________
जिनवल्लभवृत्त
श्रीप्रवचनपरीक्षा ४विश्रामे ॥२३९॥
श्रीदेवभद्राचार्यः श्रीअभयदेवमरिपट्टे श्रीजिनवल्लभगणिः स्थापितः, अनेन भव्यलोकः श्रीजिनवल्लभमूरीन् युगप्रधानश्रीअभयदेवमूरिप्रभुभक्तान् समालोक्य मोक्षमार्गे प्रवृत्तः, देवभद्राचार्यादयस्तु पदस्थापनं कृत्वा कृतकृत्यमात्मानं मन्यमानाः श्रीअणहिल्ल| पाटकादिस्थाने विहारं चक्रिरे, श्रीजिनवल्लभसूरिभिस्तु स्वायुःप्रमाणं गणितं यावत् षड् वर्षाण्यद्याप्यायुरस्तीत्यागतं, ततश्चिन्तितम्-एतावताऽपि कालेन प्रभूतभव्यलोकप्रतिबोधं करिष्याम इत्येवं सुस्थितानां तेषां षण्मासातिक्रमेऽकस्मादेहास्वास्थ्यं जातं,ज्ञात किमेतत् ?, पुनर्निपुणं निरूपयन्ति तावदकोच्छिष्टं जातं, पण्मासानां स्थाने षड्वर्षाण्यागतानि, तत एतावदेवायुरिति निश्चित्य ते | महासच्चाः समस्तसङ्घन सार्द्ध दत्तमिथ्यादुष्कृताः प्रतिपन्नचतुःशरणा विहितसर्वसच्चक्षामणाः दिनत्रितयमनशनं विधाय सप्तषष्ट्युतरैकादशशतसंवत्सरे११६७ कार्तिककृष्णद्वादश्यां१२ रजनीचरमयामे पश्चपरमेष्ठिपरावर्तनं कुर्वन्तः श्रीजिनवल्लभसूरयो महात्मानश्चतुर्थदेवलोकं प्राप्ता इत्यादि जिनदत्ताचार्यकृतस्य गणधरसार्द्धशतकस्य बृहृवृत्तौ,एवंविधे जिनवल्लभव्यतिकरे तदपत्यकृतवर्णनमाकर्ण्य न सम्मोहः कार्यः, यतो जनकजननीखजूरादिखाद्यार्पणविधिपुरस्सरवशीकरणपश्चशतीद्रविणार्पणपूर्वकप्रवाजनाचार्याभिधानोत्सूत्रव्यवस्थापनपुरस्सरसाधारणसट्टकप्रमुखनवीनसमुदायव्यवस्थापनार्थिकोत्सूत्रनिवारणप्रमुखसंबन्धमात्रघटकं समीचीनं, शेषं तु योगाद्यनुष्ठानविकलस्यापि तथाभूतस्य जिनवल्लभस्य संविग्नश्रीअभयदेवसूरिसकाशासिद्धान्तवाचना श्रीअभयदेवमूरिसंबन्धघटनाय प्रसन्नचन्द्रादीनां कर्णजापपरम्परया तत्पदृधरत्वमित्यादिकं जिनदत्ताचार्यादिभिर्विकल्प्य लिखितं सम्य| ग्धिया पर्यालोच्यमानं विशीर्यत एवेतिकृत्वा अकिश्चित्करमेवेति बोध्यं, तत्पर्यालोचनं च खरतरौष्ट्रिकादिनामव्युत्पत्तिवक्तव्य| ताऽवसरे वक्ष्यते, अत एव भूयोऽसंगतोऽपि जिनवल्लभव्यतिकरोग्रे बहुपयोगीति विचिन्त्य किश्चित्सविस्तरमिहव लिखित इति
॥२३९॥
For Persona
Pives