________________
श्रीप्रवचनपरीक्षा ४ विश्रामे
||२३८||
Jain Educationa
परं प्रविशत, ताद्यगप्रीतिकं ज्ञात्वा निवर्त्य स्थानं गताः पूज्याः, श्राद्धैरुक्तं- भगवन् ! अस्माकं बृहत्तराणि सदनानि सन्ति, तत एकस्य | गृहोपरि चतुर्विंशतिपट्टकं धृत्वा देववन्दनादि सर्व धर्मप्रयोजनं क्रियते, पष्ठकल्याणकमाराध्यते, गुरुणा भणितं तत्किमत्रायुक्तं ?, तत आराधितं विस्तरेण कल्याणकं जातं समाधानम्, अन्येद्युगीतार्थः श्रावकैर्मन्त्रितं यदि विपक्षेभ्योऽविधिप्रवृत्तेभ्यः प्रा जिनोक्तो विधिर्न लभ्यते ततो यदि गुरोः सम्मतं भवति तदा तले उपरि च देवहगृहद्वयं कार्यते, स्त्रसमाधानं गुरूणां निवेदितं, गुरु भिरप्युक्तं - जिनभवनं जिनविम्बं जिनपूजां जिनमतं च यः कुर्यात् । तस्य नरामरशिव सुखफलानि करपल्लवस्थानि ॥ १ ॥ इत्यादिदेशनया ज्ञातं श्राद्धैः श्राद्धप्रधानैः यद्गुरूणामभिप्रेतमेवैतत्, लोकमध्ये च वार्त्ता जाता यथैते देवगृहद्वितयं कारयिष्यन्तीति, वार्त्तामाकर्ण्य प्रहलाद नबृहत्तरेण बहुदेवश्रेष्ठिना कथितम् एतेऽष्टौ कापालिका देवगृहद्वितयं कारयिष्यन्तीतियावत्, तत्र चोपरि|ष्टात् श्रीपार्श्वनाथजिनभवनमधस्ताच्च यावच्छ्रीमहावीरभवनं निर्मापितं श्रीजिनवल्लभवाचनाचार्यैर्विस्तरेण समस्तविधिपूर्वकं चक्रे | गरिष्ठा प्रतिष्ठा, सर्वत्र प्रसिद्धिर्जाता अहो एत एव गुरव इत्यादि यावत् मरुकोट्टीयश्रावकैः श्रीजिनवल्लभगणिन आचार्या विहार| क्रमेण समाहृता इत्यादि यावत् श्रावकाणां धर्मपरिणाममुत्पाद्य पुनर्नागपुरे विहारं चक्रुः श्रीजिनवल्लभगणयः, अत्रान्तरे श्रीदेव| भद्राचार्या विहारक्रमं कुर्वाणाः श्रीअणहिलपत्तने समायाताः, तत्रागतैश्चिन्तितं - प्रसन्नचन्द्राचार्येण पर्यन्तसमये ममाग्रे भणितं - भवता जिनवल्लभगणिः श्री अभयदेवसूरिपदं निवेशनीयः, स च प्रस्तावोऽधुना वर्त्तते, ततः श्रीनागपुरे श्रीजिनवल्लभगणेर्विस्तरेण लेखः प्रेषितः - त्वया शीघ्रं समुदायेन सह चित्रकूटे विहर्त्तव्यं येन वयमागत्य चिन्तितं प्रयोजनं कुर्मः, ततः समागताश्चित्रकूटे जिनवल्लभगणयः, तथा देवभद्राचार्या अपि सपरिवाराः, पं० सोमचन्द्रोऽप्याकारितः परं नागन्तुं शक्तोऽभूत्, ततो महता विस्तरेण
For Personal and Private Use Only
जिनवल्लभवृत्तं
॥२३८ ॥
www.jainelibrary.org