________________
श्रीप्रवचनपरीक्षा ४विश्रामे ||२३२॥
कृत्वा यावत्प्रथमा विद्या प्रत्ययाय पठिता तावत्स्फुटाटोपभीषणाः फुत्कुर्वाणाचश्चलचलजिह्वायुगलाः स्फुरदरुणलोचनाः सर्वा- जिनवल्लभ्यो दिग्भ्य आगच्छन् ते विद्याप्रभावाकृष्टाः महानागाः, निर्भयचेतसा चिन्तितं तेन-भूतप्रत्ययेयं विद्या, पुनरुच्चारिता द्वितीया, त
भाधिकारः स्थाःप्रभावेण पुनः पश्चान्मुखाश्चलिताश्चक्षुःश्रवसः,एतच्च तत्स्वरूपं श्रुतं सूरिणा,ज्ञातं च-निश्चितं साच्चिको गुणाधिकः पुण्यपात्रमेषः,तस्मादात्मसात्कर्तुं युक्त इति,ततस्तं द्राक्षाखर्जूराक्षोटकखण्डमण्डकमोदकादिदानपुरस्सरं वशीकृत्य तन्मातरं मधुरवचनैः संबोधयामास, यदुत एष त्वदीयपुत्रोऽत्यन्तप्राज्ञः मूर्तिमान साविकः, किंबहुना ?, आचार्यपदयोग्योऽस्ति, तदेनमस्मभ्यं प्रयच्छ, एषा तावकीना देवकुलिका अन्येषां च निस्तारको भविष्यतीत्यत्रार्थे नान्यथा किंचिद्वक्तव्यमित्यभिधाय द्रम्मशतपश्चकं तस्या हस्ते प्रक्षिप्य क्षिप्रं दिदीक्षे, जिनवल्लभोऽध्यापितस्तेन समस्ता लक्षणच्छन्दोऽलङ्कारतर्कग्रहगणितादिका निरवद्यविद्याः, कदाचित्तस्याचार्यस्य ग्रामादौ प्रयोजनमुपतस्थे, ततो गच्छता पण्डितो जिनवल्लभो भणितो-भोस्त्वया तावत् सर्वाऽपि चिन्ता कर्त्तव्या यावत्प्रयोजनमनुशील्याहमागच्छामि. विनयप्रणतोत्तमाङ्गेन जिनवल्लभेनोक्तं-पूज्यैर्यथाऽऽदिष्टं तथा विधास्ये, परमाराध्यैः कार्य निष्पाद्य शीघ्रमागन्तव्यमिति, गतोऽसौ ग्रामान्तरं, ततो द्वितीयेऽह्नि चिन्तितं जिनवल्लभेन-भाण्डागारमध्ये मञ्जूषा पुस्तकभृता दृश्यते, तदेतेषु | पुस्तकेषु किमस्तीति भालयामि, यतस्तद्वशं सर्वमपि जातमस्तीति छोटितमेकं पुस्तकं, तच्च सिद्धान्तसत्कं, तत्रोक्तं पश्यति-"साधुना द्विचत्वारिंशदोषविशुद्धेन पिण्डेन गृहस्थगृहेभ्यो मधुकरवृत्त्या गृहीतेन संयमनिर्वाहहेतवे देहधारणा कर्त्तव्या, न कल्पते यतीनां सचित्तपुष्पफलादिकं हस्तेनापि स्पष्टुं. किमङ्ग तादृशमाहारयितुं ?, न युक्त एकत्र निवासो मुनीनामित्यादिविचारान् दृष्ट्वा । | मनसा विस्मितश्चिन्तयामास-अहो अन्य एव स कश्चिद्वताचारो येन मुक्तौ गम्यते,विसदृशस्त्वस्माकमेष समाचारः,स्फुटं दुर्गतिग- ॥२२॥
Smilan Ninnamamal alliAINimmitte
AalhealtualunkRNA
Jan Education Interbon
For Personal and Private Use Only
www.jainelibrary.org