________________
श्रीप्रववनपरीक्षा ४ विश्रामे
॥२३१॥
अथ पौर्णिमीयकानन्तरं क्रमप्राप्तं खरतरमतं निरूपयितुमाह
अह खरयरमयमूलं उस्सुत्तं जं जहा जओ जायं । पढमायरिअं नामुप्पत्तिं सुस्सुत्तमवि वुच्छं ॥१॥ 'अथे 'ति पौर्णिमीयकमतनिरूपणानन्तरं खरतरो- वक्ष्यमाणनिरुक्तिकौष्ट्रिकाद्यपरनामा लोकप्रसिद्धः तस्य मतं तदभिमतप्र रूपणालक्षणो मार्गः तस्य तस्मिन् वा मूलम् - आदिभूतं खरतरमतोत्पत्तिनिदानमुत्सूत्रं - प्रवचनमतिक्रम्य यादृच्छिक भाषणं 'यथा' येन प्रकारेण 'यतः पुरुषाद्, उपलक्षणात् यस्मिन् संवत्सरे इत्यादि ग्राह्यं जातम् - उत्पन्नं, तथेत्यध्याहार्य, तथा प्रथममाचार्यतन्मताकर्षकं तथा नामोत्पत्तिम्-अमुकहेतुना अमुकनाम संजज्ञे इत्यादिरूपेण खरतरादिनाम्नामुत्पत्तिं चकारः समुच्चयार्थः, | उत्सूत्रं मौलादुत्सूत्रात् क्रमेण प्रवर्द्धमानं यदुत्सूत्रं जातं तद्वक्ष्ये - भणिष्यामीति गाथार्थः || १ || अथ मूलमुत्सूत्रं जिनवल्लभादेवातस्तदुत्पत्तिस्वरूपमाह -
कुच्चरगच्छवासी चिइअनिवासी जिणेसरो सूरी। जिणवल्लहो अ सीसो तेण कओ दविणदाणेण ||२|| कूर्च्चपुरीयगच्छवासी चैत्यनिवासी जिनेश्वर इति नाम्ना सूरिरासीत्, तेन सूरिणा द्रविणदानेन पञ्चशतीद्रम्मद्रव्यव्ययेन जिनवल्लभनामा श्रावकपुत्रः शिष्यः कृतः, यदुक्तं खरतरैरेव - "इतश्च तस्मिन् समये आसिकाभिधान दुर्गवासी कूर्च्चपुरीयजिनेश्वराचार्य आसीत्, तत्र ये श्रावकपुत्रास्ते सर्वेऽपि तस्य मठे पठन्ति तत्र च जिनवल्लभनामा श्रावकपुत्रोऽस्ति तस्य जनको दिवं गतः, तं जननी प्रतिपालयति, पाठयोग्यश्वासौ प्रक्षिप्तः तया तत्र मठे पठितुं सर्वेभ्यश्वद्वेभ्यस्तस्याधिकः पाठ आगच्छति, अथ कथंचितेन जिनवल्लभचट्टेन बहिर्गच्छता टिप्पनकमेकं प्राप्तं, तत्र विद्याद्वयं लिखितमस्ति, सप्पकर्षिणी सर्पमोचनी च ततः कण्ठगतां
Jain Education International
For Personal and Private Use Only
जिनवल्लभाधिकारः
।।२३१ ।।
www.jainelibrary.org