SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ योगानयत्यं श्रीप्रवचनपरीक्षा ३विश्रामे ॥२२८॥ ___ उपधानं पुनर्येन केनापि पुरुषेण यथा तथा रचितेन श्रुतेन नाना-जिनाज्ञा न भवति,किंतु पुरुषविशेषेण-आगमव्यवहारिणा | 'रचनाविशेषे सूत्ररचनात्मके श्रुते 'यथायोग्य' योग्यस्यानतिक्रमेण, धन्यर्षेरिवागमव्यवहारकाले उपधानं न भवत्यपि,आगमस्य बलवत्वेन, अनियतविधिरपि कश्चित् कस्यचित्संभवति, नियतविधिनोपधानं श्रुतव्यवहारकाले भवत्येवेति यथायोग्यमितिपदमिति | गाथार्थः ॥१३७॥अथ दृष्टान्तमाह जह सुअकेवलिरइए निज्जुत्तिमुहंमि नथि उवहाणं। पजोसवणाकप्पे अस्थि तओ तंपि णेगविहं ॥१३८॥ ___ यथा श्रुतकेवलिना श्रीभद्रबाहुस्वामिना रचिते नियुक्तिप्रमुखे-आवश्यकादिनियुक्त्युपसर्गहरजइजासमणेभयवमित्यादिस्तोत्रादावुपधानं नास्ति, अस्ति च श्रीपयुषणाकल्पसूत्रे, कसाम्येऽपि रचनाविशेष एवोपधानं भणितं, यत एवं ततस्तदपि-उपधानमपि अनेकविधं-नानाप्रकारं कालिकोत्कालिकादि, नियतदिननियततपोलक्षणं जिनाज्ञया, न पुनः स्वेच्छया, अत एवाचाराङ्गे पञ्चाशदिनामको योगः स्थानाङ्गे तु ग्रन्थगरीयस्त्वेऽप्यष्टादशदिनात्मक इत्यादिसरिपरम्परायातविधिनेतिगाथार्थः ॥१३८॥ अथ राकामतोत्सूत्रोपसंहारमाह - इअ पुण्णिममयमूलं उस्सुत्तं तिविहमेअमिहमुत्तं । साहुपइट्ठाचउदसिमहानिसीहाण पडिसेहो ॥१३॥ --इति-प्रागुक्तप्रकारेण पूर्णिमामतमूलमेतद् उत्सूत्रं त्रिविधमिहोक्तम् , एतत्किमित्याह-'साहुत्ति साधुप्रतिष्ठा 'चउदसी'ति मापदैकदेशे पदसमुदायोपचाराच्चतुर्दशीपाक्षिकं महानिशीथं-श्रीमहानिशीथसंज्ञक सूत्रं ततो द्वन्द्वस्तेषां प्रतिषेधः, साधुप्रतिष्ठाप्रतिषेधः । अर्थात् श्रावकप्रतिष्ठेति मार्गनाशोन्मार्गदेशनारूपं महोत्सूत्रं, तथा चतुर्दशीपाक्षिकनिषेधः अर्थात्पूर्णिमापाक्षिकाभ्युपगम इत्यत्रापि ॥२२८॥ Jan Education For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy