SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ कुपाक्षिकाणां ध्यान श्रीप्रवचनपरीक्षा ३विश्रामे ॥२२७॥ YammilanthamPRAMMAR BAAPAMROPAINTIPUR 'निजनिजाचारभाषकं' स्वकीयस्वकीयमार्गप्रणेतारं परमेश्वरं भणति, एवं च सति परमेश्वराचारयोः प्रामाण्यं परस्परप्रामाण्यसापेक्षं, तश्चैव-परमेश्वरे प्रामाण्यं स्वाभिमताचारप्ररूपकत्वादेव, आचारे च प्रामाण्य तथाविधपरमेश्वरप्ररूपितत्वादेव, परमेश्वरस्याप्रामाण्ये आचारस्याप्यप्रमाण्यमाचारस्याप्रामाण्ये च परमेश्वरस्याप्रामाण्यमेवेति परस्परसापेक्षता,सा च विचार्यमाणा परमेश्वराचारयोः कथंचिदैक्यमेव सूचयति स्म, अतः स्वाचारानन्यरूपत्वात्परमेश्वरध्यानमकिश्चित्करमेव मिथ्यादृशां, तथा आकारं पुनः ब्रह्मेश्वरादिविम्वरूपाणि भणति,ननु भो भवतां परमेश्वरस्य कीदृगाकार इत्येवं प्रेरितो भणति कश्चिद् ब्रह्ममूर्ति कश्चिदीश्वरलिङ्गम् ,आदिशब्दानारायणादिमृतिप्रभृतिकम् , एवं च सति नाम्नैकत्वेऽपि निजनिजाचाराकारध्यानपारतन्त्र्यान्निजनिजमतक्रियाजन्यमेव फलं परमेश्वरध्यानेऽपीतिगाथार्थः ॥१३५।। अथोक्तं दृष्टान्तं प्रकृते योजयितुमाह एवं कुवखवग्गो पुच्छिजंतोऽवि भणइ अम्हाणं । सद्दहणाइसमा जे ते अरिहंताइणोऽभिमया ॥१३६॥ ___ एवमुक्तन्यायेन कुपाक्षिकवर्गः पृच्छयमानोऽपि भणति-येऽस्माकं श्रद्धानादिसमास्ते एवार्हदादयोऽभिमताः-नमोअरिहंताणमित्यादिनमस्कारावल्या स्मर्यमाणास्तथाभृता एव ध्यानगोचरीभवन्ति, न पुनरतश्रद्धानभाजो, न वाऽस्मद्विपरीतमुपदिशन्तोऽपीति स्पष्टमेव नमस्कारं जपन्तोऽपि प्रतिसमयमनन्तभवभोग्यं क्लिष्टकर्मार्जयन्तीति गाथार्थः ॥१३६॥ इतिगाथाष्टकेन नमस्काराध्ययने योग्यायोग्यविचारं विधाय योग्यस्यैव नमस्काराध्ययनाध्यापने योग्ये, नान्यस्येति प्रदाथोपधानमपि कथं जिनाजेति दर्शयतिउवहाणं पुण नाणा जह तह रइअंमि जेण केणावि। किंतु रयणाविसेसे पुरिसविसेसेण जहजुग्गं ॥१३७॥ malishalilian samatanARISE EmmIIMFaiIALIMPERIARIEDUPATRIOR ॥२२७॥ Jan Education International For Personal and Private Use Only www.janeyard
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy