SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ श्रीप्रव. चनपरीक्षा ३विश्रामे ॥२२६॥ यत्तदोर्नित्यामिसंबन्धात् यद्-यस्मात्कारणादर्हदादीनपि स्वस्वमतानुरक्तानेव मनसि कृत्वा कुपाक्षिकवों ध्यायेत् ,न चाहदादयः । कुपाक्षिकाकुपाक्षिकविकल्पितमार्गश्रद्धानभाजो भवन्ति, तेन तत्तथावचनं महताम्-अर्हदादीनां कलङ्कदानमेवेति महापातकं,वस्तुतस्तु तथा- णां ध्यान विधाचारपरिकल्पनाकाल एव तथाविधाचारप्ररूपकाणामर्हदादीनामपि तद्वत्कल्पनासंभवाद् , अन्यथा स्वाचारस्य प्रामाण्यं वक्तुमशक्यत्वाद् ,अत एव तथाविधाचारार्हदादीनां कल्पना महापातकमितिगाथार्थः।।३३॥ अथ नाम्ना साम्येऽपि भिन्नत्वे दृष्टान्तमाह परमेसरुत्तिनाम जह एगं भिन्नभिन्नअत्थजुनिअनिअमयफलहेऊ आयारायारझाणवसा ॥३४॥ परमेश्वर इत्येकं नाम 'भिन्नभिन्नार्थयुतं' निजनिजाचारप्ररूपकत्वेन विकल्पितानेककोटिपरमेश्वरवाचकं निजमतफलहेतुर्भवति, |कस्माद्?-आचाराकारध्यानवशाद् ,आचार:-सन्ध्यावन्दनाग्निपूजादिलक्षणः आकारः-शङ्खचक्रत्रिशूलगदादिप्रहरणभृद्विचित्रवाहन| लिङ्गादिस्वरूपः, आचारचाकारश्च तयोर्ध्यानमस्मदीय आचारः कीदृगाकारभृता केन प्ररूपित इत्यादि मनसा चिन्तनं तद्वशात्तत्पारतन्त्र्याद् , अयं भावः-बौद्धादीनां सर्वेषामपि यो देवः स परमेश्वरत्वेनैवाभिमतः, तच्च नामैकमपि निजनिजविकल्पनानुसारेणानेकसंकेतवशान्नानार्थ संपन्नं, तनाम्नो ध्यानं कुर्बाणा अपि निजनिजाचारप्ररूपकं तथाविधविचित्राकारवती च मूर्तिं ध्यायति, तद्ध्यानं च तन्मतश्रद्धानाद्यात्मकमेवेतिकृत्वा यद्यत्फलं तत्तन्मताचाराराधनेन, तदेव ध्यानेनापि, तदनन्यपरिणामरूपत्वादितिगाथार्थः ॥१३४।। अथ तथाविधपरिणामाविष्करणायोपायमाह पुच्छिजंतो लोओ निअनिअआयारभासगं भणई। आयारं पुण बंभेसरमाइअबिंबरूवाई ॥१३॥ लोको यावान् कुश्रद्धानः स च 'पृच्छयमानः प्रश्नविषयीक्रियमाणः ननु भोः को भवतां परमेश्वर इत्यवंरूपेण प्रेर्यमाण इत्यर्थः, || ... . . AM॥२२६॥ Jan Education Intematon For Personal and Private Use Only www.jainelibrary.org
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy