________________
श्रीप्रवचनपरीक्षा
३ विश्रामे
॥२२२॥
उद्देशसमुद्देशानुज्ञाप्रमुखोपधानक्रिया अच्छिन्नपरम्परायाता गुरुपूर्वेऽध्ययने भवति, गुरुरुदेशाद्युपदेष्टा स एव पूर्व यस्यैवंविधेऽध्ययने स्युः, स्वकृते - स्वयं रचिते शक्रस्तवे सामायिकादिद्वादशाङ्गयां च गुरुरेव न स्यात्, गुरुत्वे स्वकृतत्वव्याघाताद्, | गुरोरभावे चोदेशादिविधाता कः स्यात् ?, न कोऽपीति शक्रस्तवे शक्रस्योपधानाभावेन मनुष्याणामपि नोचितमिति विकल्पनं मह| दज्ञानमितिगाथार्थः || १२६॥ अथोपधानेऽपि गुरोरनुज्ञा नैकस्वरूपेति दर्शयति
गुरुआणा य अणुण्णा दुविहा सावयमुणीण महिगिच्च । सम्मं धरणे सम्मं धरणे दाणे अ कमवयणा ॥ १२६ ॥
गुर्वाज्ञा चानुज्ञा द्विविधा - द्विप्रकारा, कथं ? - श्रावकमुनीनधिकृत्य - आश्रित्य श्रावकस्यानुज्ञा भिन्ना साधूनां च भिनेति | भिन्नत्वं कथमित्याह-'सम्मं धरणे 'ति श्रावकस्य सम्यग् धरणेऽनुज्ञा, तच्चैवं- अणुण्णायमित्यादि यावत्सम्मं धारिजाहित्ति सम्यग् | धारणविषयकमेव गुर्वनुज्ञावचनं, न पुनर्दानानुज्ञाऽपि साधोस्तु 'सम्मं धारिञ्जाहि अण्णेसिं च पवेजाहि त्ति स्वयंधारणेऽन्येभ्यो | दाने चेन्युभयथाऽपि गुर्वनुज्ञावचनमिति क्रमवचनात् क्रमेण द्विधाऽनुज्ञेतिगाथार्थः ॥ १२६ ॥ अथ कथंचित्कदाचिच्छ्रावकेणापि नमस्कारादि दीयमानं दृश्यते, तत्र का गतिरित्याह
जं पुण कत्थवि सावयदाणे आवस्सगस्स अवभासो । जह उवहाणाभावे तहऽणुण्णा एवभावमि || १२७|| यत्पुनः कदाचित् - तथाविधावसरविशेषे स्वापत्यादिकं प्रति तथाविधभद्रकमिध्यादृशमपि सम्यक्त्वाभिमुखं विज्ञाय श्रावक| दाने-श्रावकेणापि दाने-नमस्कारादिपाठने नमस्कारादेः श्रावकयोग्यस्य श्रुतस्याभ्यासः प्रागुक्तलक्षणो भवतीति बोध्यं कथमि| वेत्याह- 'जह उवहाणाभावे 'ति यथोपधानाभावे उपधानवहनाभिप्रायवतस्तदभ्यासः तथाऽनुज्ञाया अप्यभावेऽभ्यासः सम्यगेव, एतेन
For Personal and Private Use Only
उपधान
स्थापना
॥२२२॥
www.jainelibrary.org