________________
श्रीप्रवचनपरीक्षा
३ विश्रामे ॥२२९॥
एवम् अमुना प्रागुक्तप्रकारेण 'चिअ'त्ति निश्चितं सामायिकात् पृथग्भूतः पञ्चमङ्गलः - 'नमो अरिहंताण' मित्यादि 'पढमं मंगल'मितिपर्यन्तनमस्कारलक्षणः स्कन्धो भण्यते अन्यथेति - सामायिकादपृथक् भूतविवक्षायां सामायिकाध्ययनसंबन्धविवक्षायां तदेक| देशः- सामायिकाध्ययनैकदेशः, एष विदुषां पण्डिताना मुपदेशो - वचनमितिगाथार्थः || १२२ || अथ पुनरपि पराशङ्कामाहसक्करस य सकथए उपहाणं नेव संभविज्जावि । ता कह नराण हुजा ? इअ संकप्पो महापावो ॥ १२३ ॥
ननु शक्रस्तव विषय मुपधानं वादिनां पञ्चत्रिंशद्दिनमानं, तच शक्रस्तवे शक्रस्य- इन्द्रस्य न संभवेदपि, 'ता' तर्हि 'नराणां' मनुष्याणां कथं भवेत् ?, इति- अमुना प्रकारेण संकल्पो - विकल्पना 'महापापः' महामोहनीयहेतुकोऽयं विकल्प इति गाथार्थः ||१२३|| अथ तद्विकल्पं निराकरोति
सकस्थओ अ दुविहो देवकओ तहय गणहरेण कओ । दुण्हं सकयत्तणओ असंभवा हुज्ज उवहाणं ॥ १२४ ॥
शक्रस्तवस्तु द्विविधः - देवकृतः शक्रादिदेवजनितः तथा गणधरेण कृतव, तत्रैकञ्चकारो देवतेऽनेकमेदसूचकः, नहि देव| कृतोऽपि शक्रस्तव एकः स्वरूपेण स्यात्, किंतु शऋविजयसूर्याभादिदेवा यथावसरं कर्मक्षयोपशमवैचित्र्याद्भिन्नान् भिन्नान् पठितवन्तः, | अत एव देवकृताः शक्रस्तवा: अनियतपाठाः सर्वेषामपि शक्रस्तवाभिधानं च प्रायः शक्रकृतशक्रस्तवानुकारित्वादेव, एवं गणधरकृतेऽपि बोध्यं, 'दुहं' ति द्वयोः शक्रगणधरयोः स्वकृतत्वादुपधानमसंभवि भवेदिति गाथार्थः ।। १२४ ।। अथ कथमसंभवीत्याह
उससमुहेसाणा मुहोवहाणकिरिआओ । गुरुपुत्रे अज्झयणे हवंति सकयंमि नेव गुरू || १२५||
Jain Educationa International
For Personal and Private Use Only
उपधानस्थापना
॥२२१॥
www.jainelibrary.org