SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ San श्रीप्रवचनपरीक्षा ३विश्रामे ॥२१७॥ आगमव्यवहारिणां श्रुतानपेक्षा m HIRAINR क्षया प्रकारान्तरविधिना वा एकादशाङ्गीमध्यापितवन्तः स्थविराः,यदागमः-"तए णंधण्णे अणगारे समणस्स भगवओ महावीरस्स तहारूवाणं थंराणं अंतिए सामाइअमाइआई इक्कारस अंगाई अहिजतिर संजमेणं तवसा अप्पाणं भावमाणे विहरति' इत्यादि यावत् 'मासिआए संलेहणाए नवमासपरिआओ जाव कालमासे कालं किच्चा उड्डेंचंदिमजावनवगेविजविमाणपत्थडे उड्ढं दूरं वीतीवतित्ता सबट्ठसिद्ध विमाणे देवत्ताए उववण्णे"त्ति श्रीअनुत्तरोपपातिके (१६७०३-४-५) अत्र नवमासपर्यायेऽपि धनर्षिरेकादशाङ्गधरः कथितः, स च श्रुतव्यवहारानुगतयोगानुष्ठानवान्न संभवति, तावता कालेन योगानुष्ठानासंभवात् , तथा “तिवरिसपरिआगस्स समणस्स निग्गंथस्स कप्पति आयारपकप्पनाममज्झयणमुद्दिसित्तए" इत्यादिपर्यायप्राप्तेरप्यसंभवात् , तेन यथात्र पर्यायप्राप्त्यभावेऽपि तदध्ययन तथा योगाद्यभावेऽपि, यद्वा आगमव्यवहारिणा अन्यः कोऽपि योगविधिः कारितो भविष्यति, परं न स श्रुतव्यवहारिणाऽनुष्ठेय इति तात्पर्यमितिगाथार्थः ॥१११।। अथागमव्यवहारापेक्षा श्रुतव्यवहारिणो न युक्ता, तदपेक्षायां च दोषमाह न तहा सुअववहारी तयविक्खे अण्णहोवएसिजा । वेसाघरचउमासं सीसं संभूअविजउच्च ॥११२।। यथा आगमव्यवहारिणा श्रुतमध्यापितं तथा तदपेक्षः-आगमव्यवहारापेक्षः श्रुतव्यवहारी न स्याद् , अन्यथा-तदपेक्षायां संभूतबिजयवच्छिष्यं प्रति वेश्यागृहे चतुर्मासिकमुपदिशेत , यथा आगमव्यवहारिणा श्रीसंभृतविजयस्वामिनोपकोशागृहे चतुर्मासं श्रीस्थूलभद्रस्योपदिष्टं तथा श्रुतव्यवहारिणाऽप्युपदेष्टव्यमापद्यतेत्यर्थः, तब सर्वेषामप्यसम्मतमितिगाथार्थः॥११२।। अथ पुनरपि श्रीमहानिशीथेप्रामाण्य व्यवस्थापयितुं शङ्कतेनणु जह महानिसीहे उवहाणविही तहा न अण्णत्थ । कत्थवि दीसह तेणं हविज अपमाणमम्हाणं ॥११३।। ॥२१७॥ Jan Education Intebon For Personal and Private Use Only www.anebryong
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy