SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीप्रवचनपरीक्षा ३ विश्रामे ॥२१६ ॥ Jain Educationa नामज्झयणा उद्दिसितए, अदुवासपरिआगस्स० नि० ठाणसमवायए णामं अंगे उ०, दसवास० परि० सम० नि० कप्पड़ विवाह| पण्ण० अंगे उ० इत्यादियावत् वीसतिवासपरि० सम० निग्गंथे सबसुआणुवाई भवति "त्ति । श्रीव्यवहारसूत्रे ( 1३ - १०५०२२-३६) एवं च सति कथं तथाविधं श्रुतमुपधानाद्युपयोगीति, सामायिकादिप्राणां तथास्वभावाद्, अत एवाधीतसामायिकादिसूत्राणामेव | साधूनां योगोद्वहनविधिरनादिप्रवाहपतितो दृश्यते, अनादित्वं चतुर्दशीप्रवर्त्तकाचार्याभिधानाभाववदेतत्प्रवर्त्तकस्याप्याचार्यस्यामि - धानाभावादिति नातिप्रसङ्ग इति गाथार्थः ।। १०९ ।। अथोपधानरूपसूत्रोपचारक्रिया सर्वषां नियता उत नेत्याकाङ्क्षायामाह - सुत्तोवयारकिरिआ सुअववहारीण तिस्थकरकहिआ। आगमववहारीणं बलिआणं नेवमवि निअमो ॥ ११०॥ सूत्रोपचारक्रिया- उपधानरूपा 'श्रुतव्यवहारिणां ' आगमादिव्यवहारपश्चकमध्ये द्वितीयव्यवहारमाश्रितानाम्, एवकारोऽध्याहार्यः, तेषामेव, 'तीर्थकरकथिता' जिनेद्रैरुपदिष्टा, आगमव्यवहारिणाम्-अवधिमनः पर्यायकेवलज्ञान चतुर्द्दशदशन व पूर्वभृतामेवमुपधान| क्रिया कर्त्तव्येत्येवं न नियमः, अपिशब्दात्पुरुषविशेषं प्रतीत्य भवत्यपि, नियमाभावे हेतुमाह - 'बलिआणं'ति यतस्तेषां किंलक्षणानां ? - बलिकानाम्-आगमव्यवहारिणो बलिष्टाः - शेषव्यवहारापेक्षया बलवन्तः, यदागमः - " आगमबलिआ समणा निग्गंथ "त्ति (१० - ४२१) श्रीस्थानाङ्गे इति गाथार्थः ॥ ११० ॥ अथागमव्यवहारिणः स्त्ररूपमाह - जं आगमवबहारी सुअनिरविक्खो पहुच कंपि नरं । अज्झाविज्जुवहाणं विणेव जह घण्णमणगारं ॥ १११ ॥ यद् - यस्मादागमव्यवहारी 'श्रुतनिरपेक्षः' श्रुतस्य- आचाराङ्गादेर्निर्गताऽपेक्षा- तदनुसृत्य प्रवृत्तिर्यस्य स तथा, कमपि - कश्चिनरं साध्वादिलक्षणं प्रतीत्य- आश्रित्योपधानं विनैवाध्यापयेद् यथा धन्यमनगारं - धन्यर्षिनामानं योगोद्वहनमन्तरेण श्रुतोक्तविध्यपे For Personal and Private Use Only आगमव्यवहारिणां योगानियमः ॥२१६ ॥ www.jainelibrary.org.
SR No.600171
Book TitlePravachan Pariksha Part 01
Original Sutra AuthorDharmsagar
Author
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1937
Total Pages498
LanguageSanskrit
ClassificationManuscript
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy